Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 774

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रजापतिर्वैश्वामित्रो वाच्यो वा Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र꣡ सु꣢न्वा꣣ना꣡यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ तद्वचः꣢꣯ । अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡सं꣢ ह꣣ता꣢ म꣣खं न भृग꣢꣯वः ॥७७४॥

प्र꣢ । सु꣣न्वाना꣡य꣢ । अ꣡न्ध꣢꣯सः । म꣡र्तः꣢꣯ । न । व꣣ष्ट । त꣢त् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । ह꣣त꣢ । म꣣ख꣢म् । न । भृ꣡ग꣢꣯वः ॥७७४॥

Mantra without Swara
प्र सुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसं हता मखं न भृगवः ॥

प्र । सुन्वानाय । अन्धसः । मर्तः । न । वष्ट । तत् । वचः । अप । श्वानम् । अराधसम् । अ । राधसम् । हत । मखम् । न । भृगवः ॥७७४॥

Samveda - Mantra Number : 774
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अन्धसः) अन्नादिकान् भोज्यपदार्थान्। [अन्धः इत्यन्ननाम। निघं० २।७। द्वितीयार्थे षष्ठी।] (सुन्वानाय) उत्पादयते जगदीश्वराय (मर्तः न) उपासको जनः इव, यूयम् (तत्) स्तुत्यात्मकम् (वचः) वचनम् (वष्ट) उष्ट, कामयध्वम्। [वश कान्तौ अदादिः, सम्प्रसारणाभावश्छान्दसः।] अपि च (अराधसम्) अनाराधकम् (श्वानम्) श्ववृत्तिं सांसारिकपदार्थेषु लोभपरायणं जनम् (अप हत) दूरीकुरुत। कथमिव ? (भृगवः) तपस्विनो महर्षयः (मखं न) यथा मनश्चाञ्चल्यम् अपघ्नन्ति तद्वत्। [मखिः गत्यर्थः] ॥३॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥३॥
Essence
परमेश्वराराधकैर्जनैरनाराधकानां सांसारिकभोगगृध्नूनां संगतिः परिहरणीया ॥३॥ अस्मिन् खण्डे विदुष आचार्यस्य, ततः प्राप्यमाणस्य भौतिकाध्यात्मिकस्य ज्ञानरसस्य, परमात्मनस्ततः प्राप्यमाणस्यानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके प्रथमः प्रपाठकः समाप्तिमगात् ॥
Subject
तृतीया ऋक् पूर्वार्चिके ५५३ क्रमाङ्के ‘कीदृशो जनः समाजाद् बहिष्कार्यः’ इति विषये व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।
Footnote
१. ऋ० ९।१०१।१३, प्रजापतिः ऋषिः। ‘प्र सु॑न्वा॒नस्यान्ध॑सो मर्तो॒ न वृ॑त॒ तद्वचः॑’ इति पाठः। साम० ५५३, १३८६।