Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 772

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣣या꣡ प꣢वस्व देव꣣यू꣡ रेभ꣢꣯न्प꣣वि꣢त्रं꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । म꣢धो꣣र्धा꣡रा꣢ असृक्षत ॥७७२॥

अ꣣या꣢ । प꣣वस्व । देवयुः꣢ । रे꣡भ꣢꣯न् । प꣣वि꣡त्र꣢म् । प꣡रि꣢꣯ । ए꣣षि । वि꣡श्व꣢तः । म꣡धोः꣢꣯ । धा꣡रा꣢꣯ । अ꣣सृक्षत ॥७७२॥

Mantra without Swara
अया पवस्व देवयू रेभन्पवित्रं पर्येषि विश्वतः । मधोर्धारा असृक्षत ॥

अया । पवस्व । देवयुः । रेभन् । पवित्रम् । परि । एषि । विश्वतः । मधोः । धारा । असृक्षत ॥७७२॥

Samveda - Mantra Number : 772
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान रसागार सोम परमात्मन् ! (देवयुः) देवं स्तोतारम् उपासकं कामयमानः त्वम् (अया) अनया आनन्दधारया। [अया पवस्व धारया। साम० ४९३ इति वचनात्।] (पवस्व) परिस्रव। (रेभन्) उपदिशन् त्वम्। [रेभृ शब्दे, भ्वादिः।] (विश्वतः) सर्वतः (पवित्रम्)परिपूतम् अन्तःकरणम् (पर्येषि) परि प्राप्नोषि। त्वत्सकाशात् (मधोः) मधुनः, मधुरस्य आनन्दस्य (धाराः) प्रवाहसन्ततयः (असृक्षत) सृज्यन्ते ॥१॥
Essence
आनन्दरसागारात् परमेश्वरात् प्राप्ता आनन्दधारा उपासकं कृतकृत्यं कुर्वन्ति ॥१॥
Subject
अथ सोमं परमात्मानं तदीयम् आनन्दरसं च वर्णयति।
Footnote
१. ऋ० ९।१०६।१४, ‘अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत। रेभ॑न् प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥’ इति पाठः।