Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 771

1875 Mantra
Devata- पवमानः सोमः Rishi- श्यावाश्व आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡दीं꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥७७१॥

आ꣢त् । ई꣣म् । त्रित꣡स्य꣢ । यो꣡ष꣢꣯णः । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥७७१॥

Mantra without Swara
आदीं त्रितस्य योषणो हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥

आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥७७१॥

Samveda - Mantra Number : 771
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आत्) अथ (त्रितस्य) त्रिभिर्ज्ञानकर्मोपासनैः युक्तस्य जीवात्मनः (योषणः२) योषा इव सहचारिण्यो मेधाः (इन्द्राय) जीवात्मने (पीतये) पानाय (ईम्) एनम् (इन्दुम्) क्लेदकम् (हरिम्) पापहारिणं ब्रह्मानन्दरसम्(अद्रिभिः) न विदारयितुं शक्यैः मनःसंकल्पैः(हिन्वन्ति) जीवात्मनि प्रेरयन्ति। [हि गतौ वृद्धौ च स्वादिः] ॥३॥
Essence
यदा ब्रह्मानन्दरसो जीवात्मानं व्याप्नोति तदोपासकः परमं माहात्म्यमनुभवति ॥३॥
Subject
अथ पुनः ब्रह्मानन्दरसविषयमाह।
Footnote
१. ऋ० ९।३२।२। २. योषणः अङ्गुलयः—इति सा०। यु मिश्रणे, मिश्रणकर्तार ऋत्विजः—इति वि०।