Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 77

1875 Mantra
Devata- अग्निः Rishi- वत्सप्रिर्भालन्दनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡ होता꣢꣯ जा꣣तो꣢ म꣣हा꣡न्न꣢भो꣣वि꣢न्नृ꣣ष꣡द्मा꣢ सीदद꣣पां꣡ वि꣢व꣣र्ते꣢ । द꣢ध꣣द्यो꣢ धा꣣यी꣢ सु꣣ते꣡ वया꣢꣯ꣳसि य꣣न्ता꣡ वसू꣢꣯नि विध꣣ते꣡ त꣢नू꣣पाः꣢ ॥७७॥

प्र꣢ । हो꣡ता꣢꣯ । जा꣣तः꣢ । म꣣हा꣢न् । न꣣भोवि꣢त् । न꣣भः । वि꣢त् । नृ꣣ष꣡द्मा꣢ । नृ꣣ । स꣡द्मा꣢꣯ । सी꣣दत् । अपा꣢म् । वि꣣वर्ते꣢ । वि꣣ । वर्त्ते꣢ । द꣡ध꣢꣯त् । यः । धा꣣यी꣢ । सु꣣ते꣢ । व꣡याँ꣢꣯सि । य꣣न्ता꣢ । व꣡सू꣢꣯नि । वि꣣धते꣢ । त꣣नूपाः꣢ । त꣣नू । पाः꣢ ॥७७॥

Mantra without Swara
प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते । दधद्यो धायी सुते वयाꣳसि यन्ता वसूनि विधते तनूपाः ॥

प्र । होता । जातः । महान् । नभोवित् । नभः । वित् । नृषद्मा । नृ । सद्मा । सीदत् । अपाम् । विवर्ते । वि । वर्त्ते । दधत् । यः । धायी । सुते । वयाँसि । यन्ता । वसूनि । विधते । तनूपाः । तनू । पाः ॥७७॥

Samveda - Mantra Number : 77
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(महान्) महिमोपेतः, (नभोवित्) नभसि दिवि सूर्येऽन्तरिक्षे वा विद्यते यः सः परमात्माग्निः। नभः इति दिवः सूर्यस्य च साधारणनामसु पठितम्। निघं० १।४। (नभः) आदित्यो भवति इति निरुक्तम्। २।१४। अन्तरिक्षं वै नभांसि। तै० सं० ३।८।१८।१। (होता) अस्मभ्यं सर्वेषां सुखानां दाता (प्रजातः) सञ्जातोऽस्ति। (नृषद्मा२) नृषु मनुष्येषु सद्म गृहं यस्य सः, मनुष्येषु कृतनिवासः असौ (अपाम्३) नदीनाम् (विवर्ते) आवर्तेऽपि (सीदत्) निषीदति। षद्लृ धातोश्छन्दसि लडर्थे लङ्, अडागमाभावः। (धायी) जगद्धारणकर्ता (यः) परमात्माग्निः (सुते) उत्पन्ने जगति (वयांसि४) भोग्यपदार्थान्। वयः इत्यन्ननाम। निघं० २।७। (दधत्) दधाति। दध धारणे भ्वादिः, लेटि रूपम्। (वसूनि) नक्षत्रग्रहोपग्रहादीनि लोकलोकान्तराणि (यन्ता) नियमे प्रवर्तयिता स एव (विधते५) परिचरते जनाय। विधतिः परिचर्याकर्मा। निघं० ३।५। ततः शतरि चतुर्थ्येकवचने रूपम्। (तनूपाः) स्थूलसूक्ष्मकारणशरीराणां रक्षको भवति ॥५॥ अत्र नभोवित् अपि नृषद्मा, नृषद्मा अपि अपां विवर्ते स्थितः इति विरोधालङ्कारो ध्वन्यते। परमेश्वराग्नेः सर्वव्यापित्वाद् विरोधपरिहारः ॥५॥
Essence
परमेश्वरो नभस्यपि पृथिव्यामपि, मनुष्येष्वपि पशुपक्ष्यादिष्वपि, मेघेष्वपि सूर्यकिरणेष्वपि पर्वतेष्वपि सरितां प्रवाहेष्वपि नक्षत्रेष्वपि ग्रहोपग्रहेष्वपि सर्वत्रैव विद्यमानः सन् विश्वं सञ्चालयति ॥५॥
Subject
अथ परमात्मा कीदृशोऽस्तीति वर्ण्यते।
Footnote
१. ऋ० १०।४६।१ नृषद्मा इत्यत्र नृषद्वा इति, तृतीये पादे च दधिर्यो धायि स ते वयांसि इति पाठः। २. नृषद्मा नृषु सीदन्, सदेर्मनिन्, नित्स्वरः—इति सा०। ३. आपो यत्र विविधं वर्तन्ते सोऽपां विवर्तः अन्तरिक्षलोकः, तस्मिन्नित्यर्थः—इति वि०। ४. वयांसि अन्नानि वसूनि धनानि च। षष्ठ्यर्थे द्वितीयाव्यत्ययः। वयसां वसूनां च यन्ता भवति—इति भ०। ५. विवरणकृद्भरतस्वामिनोर्मते तु विधते इति तिङन्तं पदम्। विधते परिचरति—इति वि०। विधते धत्ताम्, पञ्चमलकारान्तं, लेटोऽडाटौ।’ पा० ३।४।९४ इति अट्—इति भ०, तत्तु चिन्त्यं, स्वरविरोधात्। विधते परिचरते ते तुभ्यम्—इति सा०।