Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 768

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
आ꣡ ह꣢र्य꣣तो꣡ अर्जु꣢꣯नो꣣ अ꣡त्के꣢ अव्यत प्रि꣣यः꣢ सू꣣नु꣡र्न मर्ज्यः꣢꣯ । त꣡मी꣢ꣳ हिन्वन्त्य꣣प꣢सो꣣ य꣢था꣣ र꣡थं꣢ न꣣दी꣡ष्वा गभ꣢꣯स्त्योः ॥७६८॥

आ । ह꣣र्य꣢तः । अ꣡र्जु꣢꣯नः । अ꣡त्के꣢꣯ । अ꣣व्यत । प्रियः꣢ । सू꣣नुः꣢ । न । म꣡र्ज्यः꣢꣯ । तम् । ई꣣म् । हिन्वन्ति । अ꣡पसः꣢ । य꣡था꣢꣯ । र꣡थ꣢꣯म् । न꣣दी꣡षु꣢ । आ । ग꣡भ꣢꣯स्त्योः ॥७६८॥

Mantra without Swara
आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः । तमीꣳ हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥

आ । हर्यतः । अर्जुनः । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः । तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥७६८॥

Samveda - Mantra Number : 768
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हर्यतः) कमनीयः। [हर्य गतिकान्त्योः। भृमृदृशि० उ० ३।११० इति अतच् प्रत्ययः।] (अर्जुनः) गौरवर्णः, (प्रियः) प्रीतिपात्रभूतः, (मर्ज्यः) अलङ्कार्यः. [मृजू शौचालङ्कारयोः।] (सूनुः) पुत्रः (न) यथा (अत्के) अश्वे, (आ अव्यत) आरोह्यते तथा (हर्यतः) सर्वान्तर्यामी, कमनीयः, (अर्जुनः) शुद्धः, सात्त्विकः, (प्रियः) प्रेमार्हः, (मर्ज्यः) वक्षसि अलंकारवद् हृदि धारणीयः सोमः सौम्यः परमेश्वरः (अत्के) उपासकानाम् आत्मनि२ (आ अव्यत) आनीयते। [आङ्पूर्वस्य अवतेर्गत्यर्थस्य कर्मणि रूपम्।] (तम् ईम्) तम् एनम् (अपसः) अपस्विनः कर्मण्याः जनाः (आ हिन्वन्ति) सर्वत्र गमयन्ति प्रचारयन्ति। कथमिव ? (यथा) येन प्रकारेण, नाविकाः (नदीषु) सरित्सु (गभस्त्योः) गभस्तिभ्यां, बाहुभ्याम्। [तृतीयार्थे षष्ठी।] (रथम्) जलपोतम् (आ हिन्वन्ति) चालयन्ति तद्वत् ॥२॥ अत्र द्वयोरुपमयोः संसृष्टिः। पूर्वार्धे श्लिष्टोपमा ॥२॥
Essence
उपासकैर्योगिभिः परमात्मानं स्वात्मनि संधार्य स सर्वत्र प्रचारणीयो येन जगत्यास्तिकताया वातावरणं भवेत् ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१०७।१३, अर्जुने इति पाठः। २. अततीति अत्कः वायुः आत्मा च इति दशपाद्युणादिवृत्तौ ‘इण्भीकापाशल्यतिमर्चिभ्यः कन्’ द० पा० उ० ३।२१ सूत्रे माणिक्यः।