Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 767

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
प्र꣡ सो꣢म दे꣣व꣡वी꣢तये꣣ सि꣢न्धु꣣र्न꣡ पि꣢प्ये꣣ अ꣡र्ण꣢सा । अ꣣ꣳशोः꣡ पय꣢꣯सा मदि꣣रो꣡ न जागृ꣢꣯वि꣣र꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣡त꣢म् ॥७६७॥

प्र꣢ । सो꣣म । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । सि꣡न्धुः꣢꣯ । न । पि꣣प्ये । अ꣡र्ण꣢꣯सा । अ꣣ꣳशोः꣢ । प꣡य꣢꣯सा । म꣣दिरः꣢ । न । जा꣡गृ꣢꣯विः । अ꣡च्छ꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् ॥७६७॥

Mantra without Swara
प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा । अꣳशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥

प्र । सोम । देववीतये । देव । वीतये । सिन्धुः । न । पिप्ये । अर्णसा । अꣳशोः । पयसा । मदिरः । न । जागृविः । अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् ॥७६७॥

Samveda - Mantra Number : 767
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार परमात्मन् ! त्वम् (देववीतये) देवानां दिव्यगुणानां वीतिः उपासकस्य हृदये प्रजननं तदर्थाय (अर्णसा) आनन्दरसेन (प्र पिप्ये) आप्यायितोऽसि, (अर्णसा) जलेन (सिन्धुः न) पर्जन्यो यथा आप्यायते। अथ उपासकं प्रत्युच्यते—हे उपासक ! (अंशोः) अंशुमालिनः सूर्य्यस्य। [अत्र अंशोः अंशुमति लक्षणा। यद्वा मतुपो लुक्।] (पयसा) वृष्टिजलेन (मदिरः) न हृष्टः कर्षकः इव (जागृविः) जागरूकः त्वम् (मधुश्चुतम्) आनन्दमधुस्राविणम् (कोशम्) आनन्दनिधिं परमात्मानम् (अच्छ) अभिमुखो भव ॥१॥ अत्रोपमालङ्कारः।
Essence
आनन्दरसलाभायानन्दरसनिधिः परमेश्वर एव जनैर्ध्यातव्यः, किं भौतिकानां प्रतिमादीनां पूजनेन ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१४ क्रमाङ्के जीवात्मविषये व्याख्याता। अत्र परमात्मन उपासकस्य च विषयमाह।
Footnote
१. ऋ० ९।१०७।१२, साम० ५१४।