Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 766

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣣ता꣡ इन्द्रा꣢꣯य वा꣣य꣢वे꣣ व꣡रु꣢णाय म꣣रु꣡द्भ्यः꣣ । सो꣡मा꣢ अर्षन्तु꣣ वि꣡ष्ण꣢वे ॥७६६॥

सु꣣ताः꣢ । इ꣡न्द्रा꣢꣯य । वा꣣य꣡वे꣢ । व꣡रु꣢꣯णाय । म꣣रु꣡द्भ्यः꣢ । सो꣡माः꣢꣯ । अ꣣र्षन्तु । वि꣡ष्ण꣢꣯वे ॥७६६॥

Mantra without Swara
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमा अर्षन्तु विष्णवे ॥

सुताः । इन्द्राय । वायवे । वरुणाय । मरुद्भ्यः । सोमाः । अर्षन्तु । विष्णवे ॥७६६॥

Samveda - Mantra Number : 766
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुताः) आचार्येण अभिषुताः, प्रेरिताः (सोमाः) ज्ञानरसाः (इन्द्राय) जीवात्मने, (वायवे) प्राणाय, (वरुणाय) वरणीयाय मनसे, (मरुद्भ्यः) ज्ञानेन्द्रिय-कर्मेन्द्रिय-रूपेभ्यः दशप्राणेभ्यः, एतान् प्रति इत्यर्थः (विष्णवे) यज्ञार्थम्। [यज्ञो वै विष्णुः श० १।१।२।१३।] (अर्षन्तु) गच्छन्तु ॥३॥
Essence
गुरुभिः प्रदत्तैर्ज्ञानरसैर्विद्यार्थिनाम् आत्मा, प्राणः, मनः इन्द्रियाणि सर्वाण्यपि तरङ्गितानि भूत्वा देवपूजासंगतिकरणदानरूपाय यज्ञाय कल्पन्ते ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
२. ऋ० ९।३३।३, ‘अर्षन्ति॒’ इति भेदः।