Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 765

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣡ द्रोणा꣢꣯नि ब꣣भ्र꣡वः꣢ शु꣣क्रा꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । वा꣢जं꣣ गो꣡म꣢न्तमक्षरन् ॥७६५॥

अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । ब꣣भ्र꣡वः꣢ । शु꣣क्रा꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । अ꣡क्षरन् ॥७६५॥

Mantra without Swara
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥

अभि । द्रोणानि । बभ्रवः । शुक्रा । ऋतस्य । धारया । वाजम् । गोमन्तम् । अक्षरन् ॥७६५॥

Samveda - Mantra Number : 765
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
आचार्येण प्रदीयमानाः (बभ्रवः) धारण-पोषणकर्त्तारः। [डुभृञ् धारणपोषणयोः, जुहोत्यादिः। बिभर्ति इति बभ्रुः। ‘कुर्भ्रश्च उ० १।२२’ इति कुः प्रत्ययः धातोश्च द्वित्वम्।] (शुक्राः) पवित्राः दीप्ताः वा ज्ञानरसरूपाः सोमाः। [शुचिर् पूतीभावे दिवादिः। शोचतिः ज्वलतिकर्मा निघं० १।१६, शोचिष् शब्दस्य दीप्तिनामसु पाठात् (निघं० १।१७) दीप्त्यर्थोऽपि। ऋज्रेन्द्र उ० २।१९ इति रन् प्रत्ययः। शुच्यते पवित्रीभवति, शोचति दीप्यते वा यः स शुक्रः।] (ऋतस्य) सत्यस्य (धारया) प्रवाहसन्तत्या (द्रोणानि) शिष्याणां हृदयरूपान् द्रोणकलशान् (अभि) अभिद्रवन्ति [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।] किञ्च (गोमन्तम्) प्रकाशवन्तम् (वाजम्) आत्मबलम् (अक्षरन्) स्रावयन्ति ॥२॥
Essence
सुयोग्यमाचार्यं प्राप्य विद्यार्थिनो विद्यावन्तो विवेकवन्तः सत्यवन्तो ज्योतिष्मन्तः पवित्रहृदया आत्मबलयुक्ताश्च भवेयुः ॥२॥
Subject
अथ विदुषाऽऽचार्येण दीयमानान् ज्ञानरसान् वर्णयति।
Footnote
१. ऋ० ९।३३।२