Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 764

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣡ सोमा꣢꣯सो विप꣣श्चि꣢तो꣣ऽपो꣡ न꣢यन्त ऊ꣣र्म꣡यः꣢ । व꣡ना꣢नि महि꣣षा꣡ इ꣢व ॥७६४॥

प्र꣢ । सो꣡मा꣢꣯सः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣पः꣢ । न꣣यन्ते । ऊ꣡र्मयः꣢ । व꣡ना꣢꣯नि । म꣣हिषाः꣢ । इ꣣व ॥७६४॥

Mantra without Swara
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिषा इव ॥

प्र । सोमासः । विपश्चितः । विपः । चितः । अपः । नयन्ते । ऊर्मयः । वनानि । महिषाः । इव ॥७६४॥

Samveda - Mantra Number : 764
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विपश्चितः) विद्वांसः (ऊर्मयः) पठिताभिः विद्याभिः शिष्यहृदयानामाच्छादकाः यद्वा क्रियाशीलाः। [उर्मिः ऊर्णोतेः। निरु० ५।६९। यद्वा ऋ गतौ इति धातोः ‘अर्तेरुच्च’। उ० ४।४५ इति मिः प्रत्ययः धातोश्च उत्।] (सोमासः) प्रसवितारः, शिष्याणां द्वितीयजन्मप्रदातारः आचार्याः। [सवन्ति जन्म प्रयच्छन्तीति सोमाः। सु प्रसवैश्वर्ययोः इति धातोः ‘अर्त्तिस्तुसु०’ उ० १।१४० इत्यनेन मन् प्रत्ययः।] (अपः) शिष्याणां कर्म (प्र नयन्त) प्रकृष्टायां दिशि नयन्ति। कथम् ? (महिषाः) महान्तः सूर्यकिरणाः। [महिष इति महन्नाम। निघं० ३।३।] (वानानि इव) यथा उदकानि, मेघनिर्माणाय (प्र नयन्त) अन्तरिक्षं नयन्ति तद्वत्। [वनम् इति उदकनाम। निघं० १।१२] ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा विपश्चितो गुरवो ज्ञानदानेनाचारनिर्माणेन च विद्यार्थिन उपकुर्वन्ति तथैव विद्यार्थिभिरपि ते मनसा वाचा कर्मणा च सत्कर्त्तव्याः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४७८ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र विद्वद्विषयमाह।
Footnote
१. ऋ० ९।३३।१ ‘ऽपां न य॑न्त्यू॒र्मयः॑’ इति द्वितीयः पादः। साम० ४७८।