Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 762

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥७६२॥

Mantra without Swara
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥

उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥७६२॥

Samveda - Mantra Number : 762
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जीवात्मपक्षे। (सु जातम्) सुख्यातम्, (अप्तुरम्) अप्सु कर्मसु तुरः सत्वरः तम् कर्मशूरम्, (भङ्गम्) शत्रुविपदादिभञ्जकम्, (गोभिः परिष्कृतम्) वाग्भिः इन्द्रियैश्च सुसज्जितम् (इन्दुम्) दीप्तिमन्तं जीवात्मानम् (देवाः) मनोबुद्धिप्राणेन्द्रियादयः (उप उ अयासिषुः) बलप्राप्त्यर्थम् उपगच्छन्ति ॥ द्वितीयः—नृपतिपक्षे। (सु जातम्) सम्यक् प्रजामध्याद् निर्वाचितम्, (अप्तुरम्) कर्मयोगिनम्, (भङ्गम्) शत्रूणां भञ्जकम्, (गोभिः परिष्कृतम्) भूमिभिः परिष्कृतम्, परिष्कृतभूमिकमित्यर्थः (इन्दुम्) तेजस्विनं मधुरस्वभावं च राजानम् (देवाः) दिव्यगुणयुक्ताः प्रजाजनाः (उप उ अयासिषुः) उप प्राप्नुवन्ति ॥२॥ अत्र श्लेषालङ्कारः विशेषणानां साभिप्रायत्वात् परिकरश्च ॥२॥
Essence
यदा देहस्था मनोबुद्ध्यादयो जीवात्मनः सकाशादेव बलं लभन्ते तथा प्रजाजना वीरेण नृपतिना बलवन्तो जायन्ते ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके ४८७ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र जीवात्मविषयं नृपतिविषयं चाह।
Footnote
१. ऋ० ९।६१।१३, साम० ४८७।