Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 761

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡प꣢ शिक्षापत꣣स्थु꣡षो꣢ भि꣣य꣢स꣣मा꣡ धे꣢हि꣣ श꣡त्र꣢वे । प꣡व꣢मान वि꣣दा꣢ र꣣यि꣢म् ॥७६१॥

उ꣡प꣢꣯ । शि꣣क्ष । अपतस्थु꣡षः꣢ । अ꣣प । तस्थु꣡षः꣢ । भि꣣य꣡स꣢म् । आ । धे꣣हि । श꣡त्र꣢꣯वे । प꣡व꣢꣯मान । वि꣣दाः꣢ । र꣣यि꣢म् ॥७६१॥

Mantra without Swara
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । पवमान विदा रयिम् ॥

उप । शिक्ष । अपतस्थुषः । अप । तस्थुषः । भियसम् । आ । धेहि । शत्रवे । पवमान । विदाः । रयिम् ॥७६१॥

Samveda - Mantra Number : 761
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। हे (पवमान) पवित्रताप्रदायक सर्वान्तर्यामिन् सोम परमात्मन् ! त्वम् (अपतस्थुषः) अस्मद्दूरे स्थितान् सद्गुणान् (उपशिक्ष) अस्मत्समीपम् आनय। (शत्रवे) कामक्रोधादिकाय रिपवे (भियसम्) भीतिम् (आधेहि) कुरु। अस्मभ्यं च (रयिम्) सत्याहिंसान्यायादिरूपां दिव्यां सम्पदम् (विदाः) प्रापय ॥ द्वितीयः—नृपतिपक्षे। हे पवमान गतिमय कर्मशूर राजन् ! [पवते गतिकर्मा निघं० २।१४।] त्वम् (अपतस्थुषः) अस्मत्सकाशादपगत्य विरोधिपक्षे स्थितान् वीरान् (उपशिक्ष) दण्डय, (शत्रवे) रिपवे (भियसम्) भयम् (आधेहि) उत्पादय। अस्मभ्यं च (रयिम्) धनधान्यसुवर्णसम्पत्तिम् (विदाः२) लम्भय ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
यथा परमेश्वरः कामक्रोधादिकान् शत्रून् पराजित्य स्तोत्रे सद्गुणसम्पत्तिं प्रयच्छति तथैव राष्ट्रे राजा शत्रून् धूलिसात्कृत्य प्रजायै सर्वं धनधान्यादिकं प्रयेच्छत् ॥१॥
Subject
अथ प्रथमायामृचि परमात्मा नृपतिश्च सम्बोध्यते।
Footnote
१. ऋ० ९।१९।६। २. विद् ज्ञाने, विद्लृ लाभे, विद सत्तायाम् इत्यस्येदं रूपम्—इति वि०।