Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 760

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
दु꣣हानः꣢ प्र꣣त्न꣡मित्पयः꣢꣯ प꣣वि꣢त्रे꣣ प꣡रि꣢ षिच्यसे । क्र꣡न्दं꣢ दे꣣वा꣡ꣳ अ꣢जीजनः ॥७६०॥

दुहानः꣢ । प्र꣡त्न꣢म् । इत् । प꣡यः꣢꣯ । प꣣वि꣡त्रे꣢ । प꣡रि꣢꣯ । सि꣣च्यसे । क्र꣡न्द꣢꣯न । दे꣣वा꣢न् । अ꣣जीजनः ॥७६०॥

Mantra without Swara
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे । क्रन्दं देवाꣳ अजीजनः ॥

दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यसे । क्रन्दन । देवान् । अजीजनः ॥७६०॥

Samveda - Mantra Number : 760
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे रसागार परमात्मसोम ! (प्रत्नम् इत्) पुराणम् एव (पयः) आनन्दरसम् (दुहानः) प्रयच्छन्, त्वम् (पवित्रे) परिपूते हृदये (परिषिच्यसे) प्रवाह्यसे। (क्रन्दन्) कल-कलशब्दं कुर्वन्निव त्वम् हृदये (देवान्) दिव्यतरङ्गान् (अजीजनः) जनयसि ॥३॥
Essence
परमात्मस्तवनादुपासकस्य हृदये ब्रह्मानन्दप्रवाहाः प्रवहन्ति ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
३. ऋ० ९।४२।४।