Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 76

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
इ꣡डा꣢मग्ने पुरु꣣द꣡ꣳस꣢ꣳ स꣣निं꣡ गोः श꣢꣯श्वत्त꣣म꣡ꣳ हव꣢꣯मानाय साध । स्या꣡न्नः꣢ सू꣣नु꣡स्तन꣢꣯यो वि꣣जा꣢꣫वाग्ने꣣ सा꣡ ते꣢ सुम꣣ति꣡र्भू꣢त्व꣣स्मे꣢ ॥७६॥

इ꣡डा꣢꣯म् । अ꣣ग्ने । पुरुदँ꣡स꣢म् । पु꣣रु । दँ꣡स꣢꣯म् । स꣣नि꣢म् । गोः । श꣣श्वत्तम꣢म् । ह꣡व꣢꣯मानाय । सा꣣ध । स्या꣢त् । नः꣣ । सूनुः꣢ । त꣡न꣢꣯यः । वि꣣जा꣡वा꣢ । वि꣣ । जा꣡वा꣢꣯ । अ꣡ग्ने꣣ । सा । ते꣣ । सुमतिः꣢ । सु꣣ । मतिः꣢ । भू꣣तु । अस्मे꣡इति꣢ ॥७६॥

Mantra without Swara
इडामग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

इडाम् । अग्ने । पुरुदँसम् । पुरु । दँसम् । सनिम् । गोः । शश्वत्तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । वि । जावा । अग्ने । सा । ते । सुमतिः । सु । मतिः । भूतु । अस्मेइति ॥७६॥

Samveda - Mantra Number : 76
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) सर्वाग्रणीः परमात्मन् ! त्वम् (हवमानाय) अग्निहोत्रम् आत्मसमर्पणं च कुर्वते मह्यम् (इडाम्) पृथिवीम् अन्नं प्रशस्तां वाचं वा। इडा पृथिवीनाम, अन्ननाम, वाङ्नाम च। निघं० १।१, २।७, १।११। (गोः) धेनोः (पुरुदंसम्२) पुरुदंससम् बहुयज्ञकर्मसाधकम्। पुरु बहुनाम, दंसः कर्मनाम। निघं० ३।१, २।१। (सनिम्) पयोदधिनवनीतादिरूपं दानं च। सन्यते दीयते इति सनिः। षणु दाने इति धातोः खनिकष्यज्यसिवसिवनिसनि०’ उ० ४।१४१ इति इः प्रत्ययः। (शश्वत्तमम्) निरन्तरम् (साध) साध्नुहि, देहि। साध संसिद्धौ, स्वादिः, अत्र विकरणव्यत्ययेन शः। (नः) अस्माकम् (सूनुः) पुत्रः (तनयः) वंशधनसुखकीर्त्यादिविस्तारकः। तनु विस्तारे इति धातोः वलिमलितनिभ्यः कयन्।’ उ० ४।१०० इति कयन् प्रत्ययः। नित्यादाद्युदात्तत्वम्। (विजावा३) विजयशीलः विविधैश्वर्यजनको वा (स्यात्) भूयात्। हे (अग्ने) ज्योतिष्प्रद परमात्मन् ! (सा) प्रसिद्धा (ते) तव (सुमतिः) अनुग्रहात्मिका बुद्धिः (अस्मे) अस्मभ्यम् (भूतु) भवतु। अत्र बहुलं छन्दसि। अ० २।४।७३ इति शपो लुक् ॥४॥४
Essence
हे परमपितः परमात्मन् ! अग्निहोत्ररूपं देवयज्ञं, स्तुतिप्रार्थनोपासनासमर्पणरूपं ब्रह्मयज्ञं च कुर्वते मह्यं कृपया कृषिकरणाय साम्राज्याय वा पृथिवीम, भोजनाय भोज्यमन्नादिकं, ज्ञानप्रसाराय प्रशस्तां वाचं, शरीरपुष्ट्यै दानाय वा गव्यं पयोदधिघृतादिकं च प्रयच्छ। अस्माकं सन्तानं च कुलधनधर्मसुखसामर्थ्यन्यायकीर्तिचक्रवर्तिराज्यादीनां विस्तारकं सकलरिपुविजेतारं च कुर्याः ॥४॥
Subject
अथ परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ३।१।२३; ५।११; ६।११; ७।११; १५।७; २२।५; २३।५, य० १२।५१। २. पुरुदंसं बहुकर्माणम्। दंसः कर्म, एकः सकारो लुप्तः—इति भ०। ३. विजावा विजयशीलः। अत्र जि धातोरौणादिको वन् प्रत्ययो बाहुलकाद् आकारादेशश्च—इति ऋ० ३।१५।७ भाष्ये, विजावा विविधैश्वर्यजनकः—इति च य० १२।५१ भाष्ये द०। विजावा विविधं जनयिता पुत्राणाम्—इति वि०। विजावा स्त्री, विजयते इति। छन्दसीवनिपौ वक्तव्यौ (वा० ५।२।१०९) इति मत्वर्थीयो वनिप्। भगिनी—इति भ०। ते तव या सुमतिः शोभना बुद्धिः सा विजावा अवन्घ्या सती अस्मे अस्माकं भूतु भवतु—इति सा०। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातः।