Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 759

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ प्र꣣त्ने꣢न꣣ म꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣢भ्य꣣स्प꣡रि꣢ । क꣣वि꣡र्विप्रे꣢꣯ण वावृधे ॥७५९॥

ए꣣षः꣢ । प्र꣣त्ने꣡न꣢ । म꣡न्म꣢꣯ना । दे꣣वः꣢ । दे꣣वे꣡भ्यः꣢ । प꣡रि꣢꣯ । क꣡विः꣢ । वि꣡प्रे꣢꣯ण । वि । प्रे꣣ण । वावृधे ॥७५९॥

Mantra without Swara
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । कविर्विप्रेण वावृधे ॥

एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । कविः । विप्रेण । वि । प्रेण । वावृधे ॥७५९॥

Samveda - Mantra Number : 759
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् (देवः) प्रकाशकः (कविः) मेधावी सोमः परमात्मा (प्रत्नेन मन्मना२) पुराणेन वैदिकस्तोत्रेण (देवेभ्यः) दिव्यगुणेभ्यः, दिव्यगुणप्रदानाय इत्यर्थः (विप्रेण) मेधाविना विदुषा उपासकेन, तद्द्वारा इत्यर्थः (परि वावृधे) परितो वर्धते ॥२॥ अत्र परमात्मनि वस्तुतो वृद्धेरभावाद् असम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥२॥
Essence
उपासकेन वेदमन्त्रद्वारा सम्यगुपासितः परमात्मा सर्वत्र प्रचारं प्राप्य वृद्धिंगत इव भवति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।४२।२, ‘धार॑या पवते सु॒तः’ इति तृतीयः पादः। २. प्रत्नेन पुराणेन मन्मना साधनेन स्तोत्रेण युक्तः—इति सा०। मन्म बलमभिधीयते, बलेन—इति वि०।