Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 758

1875 Mantra
Devata- पवमानः सोमः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢ । ह꣡रि꣢ प꣣वि꣡त्रे꣢ अर्षति ॥७५८॥

ए꣣षः꣢ । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । दे꣣वः꣢ । दे꣣वे꣡भ्यः꣢ । सु꣣तः꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣र्षति ॥७५८॥

Mantra without Swara
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरि पवित्रे अर्षति ॥

एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवित्रे । अर्षति ॥७५८॥

Samveda - Mantra Number : 758
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रत्नेन जन्मना३) पुरातनेन स्वभावेन (देवेभ्यः) प्रकाशकेभ्यः आत्ममनोबुद्धिज्ञानेन्द्रियेभ्यः (सुतः)अभिषुतः (एषः) अयम् (देवः) प्रकाशकः (हरिः)पापहारी परमात्मसोमः (पवित्रे) पवित्रे हृदये (अर्षति) गच्छति ॥१॥
Essence
सुचारुविधिना सम्यगाराधितः परमात्माऽवश्यमुपासकं स्वानुभूतिं कारयति ॥१॥
Subject
तत्र प्रथमायामृचि परमात्मसोमं वर्णयति।
Footnote
२. ऋ० ९।३।९, साम० १२६४। ३. जन्मना जननेन—इति सा०। कर्मणा नाम्ना वा—इति वि०।