Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 756

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣य꣡ꣳ सूर्य꣢꣯ इवोप꣣दृ꣢ग꣣य꣡ꣳ सरा꣢꣯ꣳसि धावति । स꣣प्त꣢ प्र꣣व꣢त꣣ आ꣡ दिव꣢꣯म् ॥७५६॥

अ꣣य꣢म् । सू꣡र्यः꣢꣯ । इ꣣व । उपदृ꣢क् । उ꣣प । दृ꣢क् । अ꣣य꣢म् । स꣡रा꣢꣯ꣳसि । धा꣣वति । स꣣प्त꣢ । प्र꣣व꣡तः꣢ । आ । दि꣡व꣢꣯म् ॥७५६॥

Mantra without Swara
अयꣳ सूर्य इवोपदृगयꣳ सराꣳसि धावति । सप्त प्रवत आ दिवम् ॥

अयम् । सूर्यः । इव । उपदृक् । उप । दृक् । अयम् । सराꣳसि । धावति । सप्त । प्रवतः । आ । दिवम् ॥७५६॥

Samveda - Mantra Number : 756
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एषः सोमः सौम्यः परमात्मा (सूर्यः इव) आदित्यः इव (उपदृक्) उपदर्शयिता अस्ति। (अयम्) एषः सौम्यः परमात्मा (सरांसि२) हृदयसरोवरान् (धावति) द्रुतं गच्छति, शोधयति वा। [धावु गतिशुद्ध्योः भ्वादिः।] अयम् (सप्त) सप्तसंख्यकान् (प्रवतः३) ज्ञानेन्द्रियसहितान् मनोबुद्धिलोकान्, (दिवम्) द्योतमानम् जीवात्मानं च (आ) आधावति आगच्छति शोधयति वा ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा सूर्यः सर्वेषां पदार्थानामुपदर्शको भवति, स्वकिरणैः मेघसरोवरान् गच्छति, भूमिचन्द्रादीन् सप्त ग्रहोपग्रहान् स्वप्रकाशेन शोधयति, दिवि तिष्ठति तथैव परमात्मा सर्वेषां दृष्टिप्रदाता, हृदयसरांसि गन्ता, देहवर्तिनः सप्त प्राणान् शोधयिता, आत्मपुरि च स्थाता वर्तते ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।५४।२। २. सरांसि त्रिंशत् उक्थपात्राणि इति केचिद् वदन्ति, अपरे तु त्रिंशदहोरात्राणि सरांसि, तानि धावति प्रतिगच्छति। तथा च यास्कः—तत्रैतद् याज्ञिका वेदयन्ते त्रिंशदुक्थपात्राणि माध्यन्दिने सवने एकदेवतानि, तान्येतस्मिन् काल एकेन प्रतिधानेन पिबन्ति, तान्यत्र सरांस्युच्यन्ते। त्रिंशदपरपक्षस्याहोरात्राः, त्रिंशत् पूर्वपक्षस्येति नैरुक्ताः (निरु० ५।११)—इति सा०। ३. सप्त प्रवतः सप्त नदीः—इति सा०। सप्त लोकान् अथवा सप्त छन्दांसि—इति वि०।