Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 755

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣स्य꣢ प्र꣣त्ना꣢꣫मनु꣣ द्यु꣡त꣢ꣳ शु꣣क्रं꣡ दु꣢दुह्रे꣣ अ꣡ह्र꣢यः । प꣡यः꣢ सहस्र꣣सा꣡मृषि꣢꣯म् ॥७५५॥

अ꣡स्य꣢ । प्र꣣त्ना꣢म् । अ꣡नु꣢꣯ । द्यु꣡त꣢꣯म् । शु꣣क्र꣢म् । दु꣣दुह्रे । अ꣡ह्र꣢꣯यः । अ । ह्र꣣यः । प꣡यः꣢꣯ । स꣣हस्रसा꣢म् । स꣣हस्र । सा꣢म् । ऋ꣡षि꣢꣯म् ॥७५५॥

Mantra without Swara
अस्य प्रत्नामनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम् ॥

अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः । अ । ह्रयः । पयः । सहस्रसाम् । सहस्र । साम् । ऋषिम् ॥७५५॥

Samveda - Mantra Number : 755
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) सोमस्य सौम्यतेजसः परमात्मनः (प्रत्नाम्) पुराणीम् (सहस्रसाम्२) या सहस्राणि असंख्यातानि फलानि सनोति ददाति ताम् (ऋषिम्३) बहुकार्यसाधिकाम् (द्युतम्) सौम्यां द्युतिम् (अनु) अनुध्याय (अह्रयः४) व्याप्तविद्याः उपासकाः (शुक्रम्) शुद्धम् (पयः) ब्रह्मानन्दरसम् (दुदुह्रे) दुदुहिरे, प्राप्नुवन्ति। [दुह प्रपूरणे धातोः, वर्त्तमाने लिट्। इरयोरे अ० ६।४।७६ इति इरेज् इत्यस्य स्थाने रे आदेशः] ॥१॥५
Essence
यः सौम्यः शुद्धः परमात्मा स्वोपासकानां हृदि सौम्यं शुद्धं ब्रह्मानन्दरसं स्रावयति तस्य सौम्यायां द्युतौ ध्यानं सर्वैः करणीयम् ॥१॥
Subject
अथ सोमस्य परमात्मनो विषयमाह।
Footnote
१. ऋ० ९।५४।१। य० ३।१६ गोऽग्निपयोदेवत्या। २. सहस्रसाम् या सहस्राण्यसंख्यातानि कार्याणि सनोति ताम् इति य० ३।१६ भाष्ये द०। ३. ऋषिम् कार्यसिद्धिप्राप्तिहेतुम्। अत्र इगुपधात् कित्। उ० ४।१२०, अनेन ऋषी गतौ इत्यस्माद् धातोरिन् प्रत्ययः—इति तत्रैव द०। ४. (अह्रयः) अहुवन्ति व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः। अत्र अह व्याप्तौ इत्यस्माद् बाहुलकेनौणादिकः क्रिः प्रत्ययः। महीधरेणायं ह्री लज्जायाम् इत्यस्य प्रयोगोऽशुद्ध एव व्याख्यातः इति य० ३।१६ भाष्ये द०। ५. ‘अग्निर्देवता’ इति यजुर्भाष्ये दयानन्दर्षिः। स मन्त्रमिमं तत्र भौतिकाग्निपक्षे व्याख्यातवान्। ‘गायत्री अवत्सारद्रष्टा गोऽग्निपयोदेवत्या’ इति महीधरः। तन्मते “अर्षति दोहनस्थाने गच्छतीति ऋषिर्गौः। तां होमार्थं दुग्धवन्तः। सायंदोहनकालेऽग्निप्रकाशाभावे दुह्यमानं पयो भूमौ पतिष्यतीति शङ्कया दोग्धॄणां लज्जा भवति। सत्यामग्निदीप्तौ स्कन्नशङ्कानुदयाल्लज्जाभावाद् अह्रयो दोग्धारः। किंभूताम् ऋषिम् ? सहस्राम्। ‘षोऽन्तकर्मणि’। सहस्रसंख्याकानि कर्माणि स्यति समापयति क्षीरदध्याज्यहविःप्रदानेनेति सहस्रसा ताम्, स्यतेः क्विप्। यद्वा—अह्रयः गावः, नास्ति ह्रीर्लज्जा यासां ता अह्रयः अलज्जाः उज्ज्वलाः प्रशस्ता इत्यर्थः। मलिनो हि लज्जते। अह्रयो गावोऽस्याग्नेः प्रत्नां चिरन्तनीम् आत्मानुषक्तां द्युतं दीप्तिं शुक्रं शुक्ररूपापन्नां द्युतमेव पयो दुग्धं दुदुह्रे दुहन्ति क्षरन्ति, अग्निना शुक्ररूपेण सिक्तां स्वकान्तिमेव गावो दुग्धरूपेण क्षरन्तीत्यर्थः। ‘सहस्रसाम् ऋषिम्’ इति विशेषणद्वयं पयसः। सहस्रं सनोति सहस्रसास्तम्, चातुर्मास्यपशुसोमानां संभक्तारम्। पुंस्त्वमार्षम्। ‘जनसनखनक्रमगमो विट्’ पा० ३।२।६७ इति विट् प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ पा० ६।४।४१ इत्याकारे वेर्लोपे सहस्रसा इति रूपम्। तथा ऋषिं द्रष्टारम्। गवि वर्तमानं द्रष्टृत्वं पयस्युपचर्यते यद्वा ‘सहस्रसाम् ऋषिम्’ इति विभक्तिलिङ्गवचनव्यत्ययेन अह्रयः इत्यस्य विशेषणद्वयम्। किंभूता अह्रयः ? सहस्रसाः, ऋषयः” इति।