Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 753

1875 Mantra
Devata- अश्विनौ Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
इ꣣मा꣡ उ꣢ वां꣣ दि꣡वि꣢ष्टय उ꣣स्रा꣡ ह꣢वन्ते अश्विना । अ꣣यं꣡ वा꣢म꣣ह्वे꣡ऽव꣢से शचीवसू꣣ वि꣡शं꣢विश꣣ꣳ हि꣡ गच्छ꣢꣯थः ॥७५३॥

इ꣣माः꣢ । उ꣣ । वाम् । दि꣡वि꣢꣯ष्टयः । उ꣣स्रा꣢ । उ꣣ । स्रा꣢ । ह꣣वन्ते । अश्विना । अय꣢म् । वा꣣म् । अह्वे । अ꣡व꣢꣯से । श꣣चीवसू । शची । वसूइ꣡ति꣢ । वि꣡शं꣢꣯विशम् । वि꣡श꣢꣯म् । वि꣣शम् । हि꣢ । ग꣡च्छ꣢꣯थः ॥७५३॥

Mantra without Swara
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशꣳ हि गच्छथः ॥

इमाः । उ । वाम् । दिविष्टयः । उस्रा । उ । स्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसू । शची । वसूइति । विशंविशम् । विशम् । विशम् । हि । गच्छथः ॥७५३॥

Samveda - Mantra Number : 753
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अश्विना) ज्ञानेन रक्षया च व्याप्तिमन्तौ ब्राह्मणक्षत्रियौ ! (इमाः उ) एताः खलु (दिविष्टयः) यशःप्रकाशेच्छवः प्रजाः (उस्रा वाम्) वासकौ युवाम् (हवन्ते) आह्वयन्ति। हे (शचीवसू)कर्मधनौ प्रज्ञाधनौ वा ! (अयम्) एषः अहमपि (अवसे) रक्षणाय (वाम्) युवाम् (अह्वे) आह्वयामि, (हि) यतः, युवाम् (विशं विशं) प्रजां प्रजाम् (गच्छथः) प्राप्नुथः ॥१॥
Essence
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑ष॒म् (य० २०।२५) इति श्रुत्युक्तदिशा यौ ब्राह्मणक्षत्रियौ राष्ट्रं सौभाग्यशालिनं कर्तुमर्हतः, तयोः संरक्षणं सर्वाभिः प्रजाभिः प्राप्तव्यम् ॥१॥
Subject
तत्र अश्विदेवताका प्रथमा ऋक् पूर्वार्चिके ३०४ क्रमाङ्के परमात्मजीवात्मपक्षेऽध्यापकोपदेशकपक्षे च व्याख्याता। अत्र राष्ट्रोन्नतये ब्राह्मणक्षत्रियौ आह्वयति।
Footnote
१. ऋ० ७।७४।१, साम० ३०४।