Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 752

1875 Mantra
Devata- उषाः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
उ꣢दु꣣स्रि꣡याः꣢ सृजते꣣ सू꣢र्यः꣣ स꣡चा꣢ उ꣣द्य꣡न्नक्ष꣢꣯त्रमर्चि꣣व꣢त् । त꣡वेदु꣢꣯षो꣣ व्यु꣢षि꣣ सू꣡र्य꣢स्य च꣣ सं꣢ भ꣣क्ते꣡न꣢ गमेमहि ॥७५२॥

उत् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । सृ꣣जते । सू꣡र्यः꣢꣯ । स꣡चा꣢꣯ । उ꣣द्य꣢त् । उ꣣त् । य꣢त् । न꣡क्ष꣢꣯त्रम् । अ꣣र्चिव꣢त् । त꣡व꣢꣯ । इत् । उ꣣षः । व्यु꣡षि꣢꣯ । वि꣣ । उ꣡षि꣢꣯ । सू꣡र्य꣢꣯स्य । च꣣ । स꣢म् । भ꣣क्ते꣡न꣢ । ग꣣मेमहि ॥७५२॥

Mantra without Swara
उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् । तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥

उत् । उस्रियाः । उ । स्रियाः । सृजते । सूर्यः । सचा । उद्यत् । उत् । यत् । नक्षत्रम् । अर्चिवत् । तव । इत् । उषः । व्युषि । वि । उषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥७५२॥

Samveda - Mantra Number : 752
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—प्राकृतिकसूर्योषःपक्षे। (सूर्यः) आदित्यः (सचा) सह, युगपत् (उस्रियाः) किरणान्। [उस्रा इति रश्मिनाम। निघं० १।५। द्वितीयैकवचने इयाडियाजीकाराणामुपसंख्यानम्। अ० ७।१।३९ वा० इति शसः स्थाने डियाज् आदेशः।] (उत्सृजते) उद्गमयति, येन (उद्यत्) उद्गच्छत् (नक्षत्रम्) गतिमयं ग्रहोपग्रहादिकम्। [नक्षत्राणि नक्षतेर्गतिकर्मणः इति निरुक्तम् ३।२०।] (अर्चिवत्) दीप्तियुक्तं जायते इति शेषः। हे (उषः) प्रभातवेले ! (तव इत्) तव खलु (सूर्यस्य च) आदित्यस्य च (व्युषि) विवासने प्रकाशने सति, वयम् (भक्तेन) ऐश्वर्येण (संगमेमहि) संगच्छेमहि ॥ द्वितीयः—अध्यात्मपरः। (सूर्यः) सूर्यवत् प्रकाशमानः, प्रकाशकश्च परमात्मा (सचा) युगपत् (उस्रियाः) दिव्यप्रकाशस्य रश्मीन् (उत्सृजते) विसृजति, तेन च (उद्यत्) उद्गच्छत् (नक्षत्रम्) प्रगतिशीलं मनोबुद्ध्यादिकम् अर्चिवत् प्रकाशमयं जायते। हे (उषः) अध्यात्मप्रभे ! (तव इत्) तव खलु (सूर्यस्य च) परमात्मरूपस्य आदित्यस्य च (व्युषि) प्रकाशने सति, वयम् (भक्तेन) दिव्येन ऐश्वर्येण (सं गमेमहि) संगच्छेमहि ॥२॥ अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च गम्यते ॥२॥
Essence
यथोषसः सूर्यस्य चोदये सर्वं प्रकाशते तथैवाध्यात्मिक्याः प्रभायाः परमात्मनश्चोदयादुपासकानां हृदयं प्रकाशते ॥२॥
Subject
अथ सूर्योषसौ वर्ण्येते।
Footnote
१. ऋ० ७।८१।२, ‘स॑चाँ’ इति भेदः।