Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 750

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
स꣡ यो꣢जते अरु꣣षा꣢ वि꣣श्व꣡भो꣢जसा꣣ स꣡ दु꣢द्रव꣣꣬त्स्वा꣢꣯हुतः । सु꣣ब्र꣡ह्मा꣢ य꣣ज्ञः꣢ सु꣣श꣢मी꣣ व꣡सू꣢नां दे꣣व꣢꣫ꣳ राधो꣣ ज꣡ना꣢नाम् ॥७५०॥

सः । यो꣣जते । अरुषा꣣ । वि꣡श्व꣡भो꣢जसा । वि꣣श्व꣢ । भो꣣जसा । सः꣢ । दु꣣द्रवत् । स्वा꣢हुतः । सु । आ꣣हुतः । सुब्र꣡ह्मा꣢ । सु꣣ । ब्र꣡ह्मा꣢꣯ । य꣣ज्ञः꣢ । सु꣣श꣡मी꣢ । सु꣣ । श꣡मी꣢꣯ । व꣡सू꣢꣯नाम् । दे꣣व꣡म् । रा꣡धः꣢꣯ । ज꣡ना꣢꣯नाम् ॥७५०॥

Mantra without Swara
स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥

सः । योजते । अरुषा । विश्वभोजसा । विश्व । भोजसा । सः । दुद्रवत् । स्वाहुतः । सु । आहुतः । सुब्रह्मा । सु । ब्रह्मा । यज्ञः । सुशमी । सु । शमी । वसूनाम् । देवम् । राधः । जनानाम् ॥७५०॥

Samveda - Mantra Number : 750
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ यज्ञाग्निः (विश्वभोजसा) विश्वपालकेन। [विश्वं सर्वं यजमानहोत्रादिकं भुनक्ति पालयतीति विश्वभोजाः तेन।] (अरुषा) आरोचमानेन तेजसा। [अरुषम् इति रूपनाम। निघं० ३।७।] (योजते) युज्यते योजयति वा यजमानान्। (सः) यज्ञाग्निः (स्वाहुतः) सम्यक् प्राप्ताहुतिः सन् (दुद्रवत्) भृशं द्रवति गच्छति, ज्वालाभिर्लेलायते। [द्रु गतौ, यङ्लुगन्तः, लङ्, अडभावः।] (सुब्रह्मा) उत्कृष्टो ब्रह्मा (ऋत्विग्) यत्र तादृशः (यज्ञः) अध्वरः (वसूनाम्)आहिताग्नीनां यजमानानाम् (सुशमी) सुशान्तिकरः जायते। स च यज्ञः (जनानाम्) अग्निहोत्रिणां प्रजानाम् (देवं) प्रकाशकम् (राधः) ज्योतीरूपं धनं, प्रयच्छतीति शेषः ॥२॥१
Essence
सुयोग्यं ब्रह्माणमध्यक्षपदे नियुज्य कृतो यज्ञः सुखशान्तिस्वास्थ्यकरो जनानां ज्योतिष्प्रदोऽध्यात्ममार्गे प्रेरकश्च जायते ॥२॥
Subject
अथाग्निहोत्रस्य लाभानाह।
Footnote
२. ऋ० ७।१६।२। १. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये राजा कीदृशः स्यादिति विषये व्याचष्टे।