Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 75

1875 Mantra
Devata- पूषा Rishi- भरद्वाजो बार्हस्पत्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
शु꣣क्रं ते꣢ अ꣣न्य꣡द्य꣢ज꣣तं꣡ ते꣢ अ꣣न्य꣡द्वि꣢꣯षुरूपे꣣ अ꣡ह꣢नी꣣ द्यौ꣡रि꣢वासि । वि꣢श्वा꣣ हि꣢ मा꣣या꣡ अव꣢꣯सि स्वधावन्भ꣣द्रा꣡ ते꣢ पूषन्नि꣣ह꣢ रा꣣ति꣡र꣢स्तु ॥७५॥

शु꣣क्र꣢म् । ते꣣ । अन्य꣢त् । अ꣣न् । य꣢त् । य꣣जतम् । ते꣣ । अन्य꣢त् । अ꣣न् । य꣢त् । वि꣡षु꣢꣯रूपे । वि꣡षु꣢꣯ । रू꣣पेइ꣡ति꣢ । अ꣡ह꣢꣯नी । अ । ह꣣नीइ꣡ति꣢ । द्यौः । इ꣣व । असि । वि꣡श्वाः꣢꣯ । हि । मा꣣याः꣢ । अ꣡व꣢꣯सि । स्व꣣धावन् । स्व । धावन् । भद्रा꣢ । ते꣣ । पूषन् । इह꣢ । रा꣣तिः । अ꣣स्तु ॥७५॥

Mantra without Swara
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ॥

शुक्रम् । ते । अन्यत् । अन् । यत् । यजतम् । ते । अन्यत् । अन् । यत् । विषुरूपे । विषु । रूपेइति । अहनी । अ । हनीइति । द्यौः । इव । असि । विश्वाः । हि । मायाः । अवसि । स्वधावन् । स्व । धावन् । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥७५॥

Samveda - Mantra Number : 75
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पूषन्२) सर्वात्मना परिपुष्ट पुष्टिप्रद परमात्मन् ! (ते) तव, त्वद्रचितम्, (अन्यत्) एकं, दिनम् इत्यर्थः (शुक्रम्) उज्ज्वलम् अस्ति, (ते) तव, त्वद्रचितम् (अन्यत्) एकं, रात्रिः इत्यर्थः (यजतम्३) यज्ञसम्बन्धिधूमवत् कृष्णं वर्तते। एवम् त्वद्रचिते इमे (अहनी) अहोरात्रौ (विषुरूपे) विषमरूपे स्तः। त्वं स्वयं तु (द्यौः इव) सूर्य इव प्रकाशमानः (असि) वर्तसे। हे (स्वधावन्) सर्वेषां भोग्यपदार्थानां स्वामिन् ! स्वधा इति अन्ननाम। निघं० २।७। त्वम् (विश्वाः हि) सर्वाः एव (मायाः) बुद्धिकौशलपूर्णान् जगत्प्रपञ्चान् (अवसि) रक्षसि। (ते) तव (भद्रा) कल्याणदायिनी (रातिः) दत्तिः। रा दाने, मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः।’ अ० ३।३।९६ इति क्तिन् स च उदात्तः। (इह) अस्माकं जीवने (अस्तु) अस्मान् प्राप्नोतु ॥३॥ अत्र स्वयं सूर्यवद् भास्वरोऽपि परमेश्वरः शुक्लकृष्णोभयरूपां सृष्टिं करोतीति कारणकार्ययोरांशिकगुणविरोधवर्णनाद् विषमालङ्कारः४ ॥३॥ यास्काचार्य इमं मन्त्रमेवं व्याचष्टे—अथ यद् रश्मिपोषं पुष्यति तत् पूषा भवति। शुक्रं ते अन्यल्लोहितं ते अन्यद्, यजतं ते अन्यद् यज्ञियं ते अन्यद्। विषमरूपे ते अहनी कर्म। द्यौरिव चासि। सर्वाणि प्रज्ञानान्यवसि, अन्नवन्। भाजनवती ते पूषन्निह दत्तिरस्तु, निरु० १२।१७।१० इति ॥
Essence
येन परमात्मनाऽहोरात्रादिकं विलक्षणं वस्तुजातं रचितं, यश्च सर्वस्य जगत्प्रपञ्चस्य रक्षिताऽस्ति तदुपकारा अस्माभिः सदा स्मर्तव्याः ॥३॥५
Subject
अथ पूषा देवता। तन्नाम्ना परमात्मनो महिमानं वर्णयन् तं प्रार्थयते।
Footnote
१. ऋ० ६।५८।१ २. पुष्णातेः पुष्यतेः वा पूषा—इति भ०। पूषा यः स्वाभिव्याप्त्या सर्वान् प्रदार्थान् पोषयति स परमेश्वरः—इति ऋ० १।२३।१४ भाष्ये द०। ३. यजिरत्र सङ्गतिकरणे वर्तते, यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यत् एकम् अहर्भवति रात्र्याख्यम्—इति सा०। ४. गुणौ क्रिये वा चेत् स्यातां विरुद्धे हेतुकार्ययोः (सा० द० १०।६९) इति तल्लक्षणात्। . ऋग्भाष्ये दयान्दर्षिर्मन्त्रमिमं पोषणकर्तुर्मनुष्यस्य विषये व्याख्यातवान्।