Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 749

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
ए꣣ना꣡ वो꣢ अ꣣ग्निं꣡ नम꣢꣯सो꣣र्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे । प्रि꣣यं꣡ चेति꣢꣯ष्ठमर꣣ति꣡ꣳ स्व꣢ध्व꣣रं꣡ विश्व꣢꣯स्य दू꣣त꣢म꣣मृ꣡त꣢म् ॥७४९॥

ए꣣ना꣢ । वः꣣ । अग्नि꣢म् । न꣡म꣢꣯सा । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । प्रिय꣢म् । चे꣡ति꣢꣯ष्ठम् । अरति꣢म् । स्व꣣ध्वर꣢म् । सु꣣ । अध्वर꣢म् । वि꣡श्व꣢꣯स्य । दू꣣त꣢म् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् ॥७४९॥

Mantra without Swara
एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिꣳ स्वध्वरं विश्वस्य दूतममृतम् ॥

एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे । प्रियम् । चेतिष्ठम् । अरतिम् । स्वध्वरम् । सु । अध्वरम् । विश्वस्य । दूतम् । अमृतम् । अ । मृतम् ॥७४९॥

Samveda - Mantra Number : 749
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! अहम् (ऊर्जोनपातम्) बलस्य प्राणशक्तेश्च न पातयितारम्, वर्द्धकमिति यावत्, (प्रियम्) प्रेमार्हम्, (चेतिष्ठम्) अतिशयेन चेतयितारम्, (अरतिम्) गतिशीलम्, (स्वध्वरम्) शोभनः अध्वरः यज्ञः येन तम् (विश्वस्य दूतम्) सर्वस्यापि यजमानजनस्य दौत्यमिवाचरन्तम्, यथा दूतो वार्ताहरणे उभयोः पक्षयोः माध्यमं जायते तथैव योऽग्निर्हुतं द्रव्यं सूक्ष्मीकृत्य तत्सुगन्धस्य सर्वत्र प्रसारणे माध्यमं भवतीति कृत्वा तस्य दूतत्वमुक्तम्, (अमृतम्) सर्वेषु पदार्थेष्वव्यक्ततयाऽवस्थानाद् अमरणधर्माणम् (अग्निम्) यज्ञाग्निम् (वः) युष्मभ्यम्, अस्मभ्यं चेत्यपि द्योत्यते, युष्मदस्मद्धितायेति भावः (एना) एनेन प्रत्यक्षं दृश्यमानेन (नमसा) श्रद्धाभावेन, अन्नादिहविषा वा। [नमः इत्यन्ननामसु पठितम्।] (आहुवे) आजुहोमि ! [हु दानादनयोः, जुहोत्यादिः,छान्दसः शपः श्लोरभावः] ॥१॥१
Essence
अग्निहोत्रेण यथा जलवाय्वादिकस्य शुद्धिर्जायते तथैवान्तःकरणस्यापि शुद्धिर्भवति, देहात्मबलं प्राणशक्तिजागरूकता त्यागभावना चापि प्राप्यते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४५ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राग्निहोत्रविषय उच्यते।
Footnote
२. ऋ० ७।१६।१, य–० १५।३२, साम–० ४५। १. मन्त्र एष दयानन्दर्षिणा ऋग्भाष्ये राजप्रजाविषये यजुर्भाष्ये च विद्युद्विद्याविषये व्याख्यातः