Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 748

1875 Mantra
Devata- इन्द्रः Rishi- नारदः काण्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त꣡मु꣢ हुवे꣣ वा꣡ज꣢सातय꣣ इ꣢न्द्रं꣣ भ꣡रा꣢य शु꣣ष्मि꣡ण꣢म् । भ꣡वा꣢ नः सु꣣म्ने꣡ अन्त꣢꣯मः꣣ स꣡खा꣢ वृ꣣धे꣢ ॥७४८॥

तम् । उ꣣ । हुवे । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । इ꣡न्द्र꣢꣯म् । भ꣡रा꣢꣯य । शु꣣ष्मि꣡ण꣢म् । भ꣡व꣢꣯ । नः꣣ । सुम्ने꣢ । अ꣡न्त꣢꣯मः । स꣡खा꣢꣯ । स । खा꣡ । वृधे꣢ ॥७४८॥

Mantra without Swara
तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः सुम्ने अन्तमः सखा वृधे ॥

तम् । उ । हुवे । वाजसातये । वाज । सातये । इन्द्रम् । भराय । शुष्मिणम् । भव । नः । सुम्ने । अन्तमः । सखा । स । खा । वृधे ॥७४८॥

Samveda - Mantra Number : 748
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहं विद्यार्थी (वाजसातये) वाजानां विद्याबलानाम् आत्मबलानां च सातिः प्राप्तिः यस्मिन् तस्मै (भराय) अध्ययनाध्यापनयज्ञाय१। [भ्रियन्ते धार्यन्ते विविधा विद्या यस्मिन् स भरः ज्ञानयज्ञः।] (तम् उ) तमेव (शुष्मिणम्) आत्मबलेन विद्याबलेन च युक्तम् (इन्द्रम्)आचार्यम् (हुवे) आह्वयामि। हे आचार्यवर ! त्वम् (सुम्ने)सुखे निमित्ते, सुखाय इत्यर्थः (वृधे) वर्धनाय च (नः)अस्माकम् (अन्तमः) अन्तिकतमः (सखा) सुहृद् (भव)सम्पद्यस्व ॥३॥
Essence
सान्निध्येन सखित्वेन सौहार्देन च सर्वा लोकविद्या ब्रह्मविद्याश्च शिक्षयन् सुखं प्रयच्छन्नाचार्यश्छात्राणां चतुर्मुखीमुन्नतिं कुर्यात् ॥३॥ अस्मिन् खण्डे परमात्मविषयस्यात्मोद्बोधनविषयस्य गुरुशिष्यविषयस्य प्रसङ्गतः शिल्पविज्ञानविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
४. ऋ० ८।१३।३, ‘तमु हुवे’ इत्यत्र ‘तम॑ह्वे॒’ इति पाठः। १. भ्रियन्ते तस्मिन् हवींषीति भरो यज्ञः। प्रायेण संग्रामनामानि यज्ञनामत्वेन च दृश्यन्ते—इति सा०।