Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 747

1875 Mantra
Devata- इन्द्रः Rishi- नारदः काण्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स꣡ प्र꣢थ꣣मे꣡ व्यो꣢मनि दे꣣वा꣢ना꣣ꣳ स꣡द꣢ने वृ꣣धः꣢ । सु꣣पारः꣢ सु꣣श्र꣡व꣢स्तमः꣣ स꣡म꣢प्सु꣣जि꣢त् ॥७४७॥

सः । प्र꣣थमे꣢ । व्यो꣡म꣢नि । वि । ओ꣣मनि । दे꣣वा꣡ना꣢म् । स꣡द꣢꣯ने । वृ꣢धः꣡ । सु꣣पा꣢रः । सु꣣ । पारः꣡ । सु꣣श्र꣡व꣢स्तमः । सु꣣ । श्र꣡व꣢꣯स्तमः । सम् । अ꣣प्सुजि꣣त् । अ꣣प्सु । जि꣢त् ॥७४७॥

Mantra without Swara
स प्रथमे व्योमनि देवानाꣳ सदने वृधः । सुपारः सुश्रवस्तमः समप्सुजित् ॥

सः । प्रथमे । व्योमनि । वि । ओमनि । देवानाम् । सदने । वृधः । सुपारः । सु । पारः । सुश्रवस्तमः । सु । श्रवस्तमः । सम् । अप्सुजित् । अप्सु । जित् ॥७४७॥

Samveda - Mantra Number : 747
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ विद्यादाता आचार्यः (प्रथमे) श्रेष्ठे (व्योमनि) व्योमवद् व्यापके ओङ्कारपदवाच्ये (ब्रह्मणि२) स्थितः (देवानां सदने) विदुषां गृहे, गुरुकुले इत्यर्थः, विद्यमानः (वृधः) छात्राणां वर्धयिता, (सुपारः)विद्यार्णवात् सम्यक् पारयिता, (सुश्रवस्तमः)यशस्वितमः। [शोभनं श्रवः यशो यस्य स सुश्रवाः, अतिशयेन सुश्रवाः सुश्रवस्तमः।] (अप्सुजित्) अप्सु व्याप्तासु विद्यासु३ शुभकर्मसु च अन्यान् जयतीति तादृशः अस्ति, अहं तम् (सम्) सम्यक् स्तौमि ॥२॥
Essence
सुयोग्यं विद्यार्णवं कर्मयोगिनमाचार्यं प्राप्य विद्यार्थिनोऽपि तादृशा एव जायन्ते ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ८।१३।२। २. तुलनीयः ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न् ऋ० १।१६४।३९। ३. अप्सु विद्याव्यापकेषु वेदादिषु—इति ऋ० १।११७।४ भाष्ये द०।