Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 746

1875 Mantra
Devata- इन्द्रः Rishi- नारदः काण्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣣मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥७४६॥

इ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उ꣣क्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥७४६॥

Mantra without Swara
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥

इन्द्र । सुतेषु । सोमेषु । क्रतुम् । पुनीषे । उक्थ्यम् । विदे । वृधस्य । दक्षस्य । महान् । हि । सः ॥७४६॥

Samveda - Mantra Number : 746
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विद्यैश्वर्यसम्पन्न आचार्यवर ! त्वम् (सोमेषु) ज्ञानरसेषु (सुतेषु) अभिषुतेषु, विद्यार्थिनाम् अस्माकम् (क्रतुम्) कर्म अपि (उक्थ्यम्) प्रशंसनीयं यथा स्यात्तथा (पुनीषे) पवित्रयसि। (वृधस्य) वृद्धस्य (दक्षस्य)उत्साहस्य। [दक्षतिः उत्साहकर्मा। निरु० १।७।] (विदे) लम्भनार्थम् (सः) स त्वम् (महान् हि) महत्त्ववान् खलु वर्तसे ॥१॥
Essence
यथा विद्याप्रदानमाचार्यस्य कर्त्तव्यं तथैव पवित्राचारप्रदानमपि। यथोक्तम्—आचार्यः कस्मात् ? आचारं ग्राहयतीति (निरु० १।४) ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३८१ क्रमाङ्के परमेश्वरमहत्त्वविषये व्याख्याता। अत्राचार्यस्य महत्त्वं वर्णयति।
Footnote
१. ऋ० ८।१३।१, इन्द्रः॑ सु॒तेषु सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म्। वि॒दे दृ॒धस्य॒ दक्ष॑सो म॒हान् हि षः ॥ इति पाठः। साम० ३८१।