Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 745

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ घा꣢ गम꣣द्य꣢दि꣣ श्र꣡व꣢त्सह꣣स्रि꣡णी꣢भिरू꣣ति꣡भिः꣢ । वा꣡जे꣢भि꣣रु꣡प꣢ नो꣣ ह꣡व꣢म् ॥७४५॥

आ । घ꣣ । गमत् । य꣡दि꣢꣯ । श्र꣡व꣢꣯त् । स꣣हस्री꣡णी꣢भिः । ऊ꣣ति꣡भिः꣢ । वा꣡जे꣢꣯भिः । उ꣡प꣢꣯ । नः꣣ । ह꣡वम्꣢꣯ ॥७४५॥

Mantra without Swara
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । वाजेभिरुप नो हवम् ॥

आ । घ । गमत् । यदि । श्रवत् । सहस्रीणीभिः । ऊतिभिः । वाजेभिः । उप । नः । हवम् ॥७४५॥

Samveda - Mantra Number : 745
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। इन्द्रो जगदीश्वरः (यदि) चेत् (श्रवत्) अस्मदीयम् आह्वानं शृणुयात्, तर्हि सः (घ) अवश्यमेव (सहस्रिणीभिः) सहस्रसंख्याकाभिः (ऊतिभिः) रक्षाभिः (वाजेभिः) बलैः ऐश्वर्यैश्च सह (नः) अस्माकम् (हवम्) आह्वानम् (उप आगमत्) उपागच्छेत् ॥ द्वितीयः—गुरुशिष्यपरः। (यदि) एष विद्यार्थी चेत् (श्रवत्) गुरुमुखात् शास्त्राणि श्रोष्यति, तदा (सहस्रिणीभिः) सहस्रसंख्याकाभिः (ऊतिभिः) विद्यातृप्तिभिः। [अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, क्तिनि रूपम्।] (वाजेभिः) आत्मबलैश्च सह (नः) नागरिकाणाम् अस्माकम् (हवम्) उत्सवादिसमारोहम् (घ) निश्चयेन (उप आ गमत्) उपागमिष्यति, स्वकीयैर्विद्वत्तापूर्णैर्विचारैश्चास्मान् कृतार्थयिष्यति। [श्रु श्रवणे, गम्लृ गतौ। लेटि प्रथमैकवचने श्रवत्, गमत् इति] ॥३॥२
Essence
हार्दिकमाह्वानं जगदीश्वरोऽवश्यमेव शृणोति। सुयोग्यानां गुरूणां सान्निध्ये गुरुकुले वसन्तो विद्यार्थिनो विद्वांसो भूत्वा समावर्तनानन्तरं यदा बहिरागच्छेयुस्तदा सर्वानुपदिश्य सन्मार्गे प्रवर्तयेयुः ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० १।३०।८, अथ० २०।२६।२। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभासेनाध्यक्षपक्षे व्याख्यातवान्।