Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 744

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡नु꣢ प्र꣣त्न꣡स्यौक꣢꣯सो हु꣣वे꣡ तु꣢विप्र꣣तिं꣡ नर꣢꣯म् । यं꣢ ते꣣ पू꣡र्वं꣢ पि꣣ता꣢ हु꣣वे꣢ ॥७४४॥

अ꣣नु꣢꣯ । प्र꣣त्न꣡स्य꣢ । ओ꣡क꣢꣯सः । हु꣣वे꣢ । तु꣣विप्रति꣢म् । तु꣣वि । प्रति꣢म् । न꣡र꣢꣯म् । यम् । ते꣣ । पू꣡र्व꣢꣯म् । पि꣣ता꣢ । हु꣣वे꣢ ॥७४४॥

Mantra without Swara
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । यं ते पूर्वं पिता हुवे ॥

अनु । प्रत्नस्य । ओकसः । हुवे । तुविप्रतिम् । तुवि । प्रतिम् । नरम् । यम् । ते । पूर्वम् । पिता । हुवे ॥७४४॥

Samveda - Mantra Number : 744
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। अहम् उपासकः (प्रत्नस्य) चिरन्तनस्य (ओकसः२) ब्रह्माण्ड-गृहस्य (नरम्) नेतारम्, (तुविप्रतिम्३) बहूनां पदार्थानां प्रतिमातारम् इन्द्रं जगदीश्वरं त्वाम् (अनुहुवे) अनुकूलयितुम् आह्वयामि, (यं ते) यं त्वाम् (पूर्वम्) प्राक् (पिता) मम जनकः (हुवे) आह्वयति (स्म) ॥ द्वितीयः—आचार्यपरः। हे बालक ! अहं त्वदीयः पितृव्यादिः (तुविप्रतिम्) बह्वीनां विद्यानां प्रतिकृतिभूतम्, (प्रत्नस्य) पुरातनस्य (ओकसः) विद्यागृहस्य (नरम्) नेतारम् आचार्यम् (अनु) अनुकूल्य, तवाध्यापनाय सदाचारशिक्षणाय च (हुवे) आह्वयामि, (यम्) आचार्यम् (पूर्वम्) प्राक् (ते) तव (पिता) जनकः, अन्येषां बालकानामध्यापनाय (हुवे) आह्वयति स्म ॥२॥४
Essence
सर्वैर्मनुष्यैः परमेश्वर उपासनीयः। किञ्च बालकानां संरक्षकैः पितृपितृव्यादिभिर्विद्याध्ययनाय बालकाः सुयोग्यस्य गुरोः समीपं प्रेषणीयाः, येन ते विद्वांसो भूत्वा कुशला नागरिका भवेयुः ॥२॥
Subject
अथ परमेश्वरस्तुतिं गुरुशिष्यविषयं चाह।
Footnote
१. ऋ० १।३०।९, अथ० २०।२६।३। २. ओकसः गृहस्य उदकस्य बलस्यान्नस्य वा—इति वि०। ३. (तुविप्रतिम्) तुवीनां बहूनां पदार्थानां प्रतिमातारम्। अत्रैकदेशेन प्रतिशब्देन प्रतिमातृशब्दार्थो गृह्यते इति ऋ० १।३०।९ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ईश्वरपक्षे सभाध्यक्षपक्षे च व्याख्यातवान्।