Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 743

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो꣡गे꣣योगे त꣣व꣡स्त꣢रं꣣ वा꣡जे꣢वाजे हवामहे । स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥७४३॥

यो꣡गेयो꣢꣯गे । यो꣡गे꣢꣯ । यो꣣गे । तव꣡स्त꣢रम् । वा꣡जे꣢꣯वाजे । वा꣡जे꣢꣯ । वा꣣जे । हवामहे । स꣡खा꣢꣯यः । स । खा꣣यः । इ꣡न्द्र꣢꣯म् । ऊ꣣त꣡ये꣢ ॥७४३॥

Mantra without Swara
योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥

योगेयोगे । योगे । योगे । तवस्तरम् । वाजेवाजे । वाजे । वाजे । हवामहे । सखायः । स । खायः । इन्द्रम् । ऊतये ॥७४३॥

Samveda - Mantra Number : 743
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। (सखायः) सहयोगिनः उपासकाः वयम् (योगेयोगे) अप्राप्तस्य प्राप्तिर्योगः प्रतिनूतनोपलब्धिनिमित्तम्, (वाजेवाजे) प्रतिबलप्राप्तिनिमित्तम्, (ऊतये) प्रगतये च (तवस्तरम्) बलवत्तरम् (इन्द्रम्) विघ्नविघातकं परमैश्वर्यवन्तं परमेश्वरम् (हवामहे) स्तुमः ॥ द्वितीयः—आचार्यपरः। (सखायः) परस्परं सख्येन आबद्धाः सहाध्यायिनो वयं योगेयोगे प्रतिविद्यायोगम् (वाजेवाजे) वाजः अविद्याकामक्रोधलोभमोहादिभिः संग्रामः, प्रतिसंग्रामम् (ऊतये) रक्षणाय (तवस्तरम्) अतिशयेन विद्याबलयोगबलादिभिर्युक्तम् (इन्द्रम्) आचार्यम् (हवामहे) आह्वयामः ॥२ तृतीयः—शिल्पविद्यापरः। यन्त्रकलासु विद्युतं प्रयुञ्जानः शिल्पी प्राह—(सखायः) सहयोगिनो वयम् (योगेयोगे) पदार्थानां परस्परं योजनेन नवीनानां वस्तूनां निर्माणं योगः, प्रतिनिर्माणम् (वाजेवाजे) वाजो बलम्, प्रतिबलकर्म च (ऊतये) शिल्पविद्याव्यवहाराय (तवस्तरम्) बलवत्तरम् (इन्द्रम्) विद्युदग्निम् (हवामहे) आह्वयामः, यन्त्रकलासु प्रयुज्महे इत्यर्थः ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
यथा बलादिप्राप्तये परमेश्वर उपासनीयस्तथैव निखिलविद्याध्ययनाय अभ्यन्तरं जायमानेषु देवासुरसंग्रामेषु विजयाय च विद्वान् सदाचारी गुरुरङ्गीकार्यः। यन्त्रागारेषु व्यवहारोपयोगिनां पदार्थानां निर्माणाय संग्रामेषु शस्त्रास्त्रचालनाय च विद्युत्प्रयोगः कार्यः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १६३ क्रमाङ्के योगपक्षे सेनाध्यक्षपक्षे च व्याख्याता। अत्र परमेश्वर आचार्यो विद्युदग्निश्चाहूयते।
Footnote
१. ऋ० १।३०।७, य० ११।१४, अथ० १९।२४।७, २०।२६।१, साम० १६३। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमात्मपक्षे सेनाध्यक्षपक्षे च, यजुर्भाष्ये च राजपक्षे व्याख्यातवान्।