Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 742

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ घा꣢ नो꣣ यो꣢ग꣣ आ꣡ भु꣢व꣣त्स꣢ रा꣣ये꣡ स पुर꣢꣯न्ध्या । ग꣢म꣣द्वा꣡जे꣢भि꣣रा꣡ स नः꣢꣯ ॥७४२॥

सः । घ꣣ । नः । यो꣡गे꣢꣯ । आ । भु꣣वत् । सः꣢ । रा꣣ये꣢ । सः । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । ग꣡म꣢꣯त् । वा꣡जे꣢꣯भिः । आ । सः । नः꣣ ॥७४२॥

Mantra without Swara
स घा नो योग आ भुवत्स राये स पुरन्ध्या । गमद्वाजेभिरा स नः ॥

सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरन्ध्या । पुरम् । ध्या । गमत् । वाजेभिः । आ । सः । नः ॥७४२॥

Samveda - Mantra Number : 742
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ प्रसिद्धः इन्द्रः परमात्मा, (नः) अस्माकम् (योगे) अष्टाङ्गयोगसाधने (आ भुवत्) सहायको भवतु। (सः) असौ (राये) अणिमलघिममहिमाद्यैश्वर्यप्राप्तये, अस्माकं सहायको भवतु। (सः) असौ (पुरन्ध्या) पालनकर्त्र्या बुद्ध्या अस्मान् संयुनक्तु इति शेषः। (सः) असौ (वाजेभिः) अध्यात्मबलैः सह (नः) अस्मान् (आ गमत्) आगच्छतु ॥३॥५
Essence
योगसिद्धिमार्गे ये विघ्नाः समुपतिष्ठन्ते ते परमात्मसाहाय्येन निराकर्तुं शक्यन्ते ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
४. ऋ० १।५।३, अथ० २०।६९।१, उभयत्र ‘पुरन्ध्याम्’ इति पाठः। ५. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं परमेश्वरपक्षे वायुपक्षे च व्याख्यातवान्।