Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 741

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣रूत꣡मं꣢ पु꣣रूणा꣡मीशा꣢꣯नं꣣ वा꣡र्या꣢णाम् । इ꣢न्द्र꣣ꣳ सो꣢मे꣣ स꣡चा꣢ सु꣣ते꣢ ॥७४१॥

पु꣣रूत꣡म꣢म् । पु꣣रूणा꣢म् । ई꣡शा꣢꣯नम् । वा꣡र्या꣢꣯णाम् । इ꣡न्द्र꣢꣯म् । सो꣡मे꣢꣯ । स꣡चा꣢꣯ । सु꣣ते꣢ ॥७४१॥

Mantra without Swara
पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रꣳ सोमे सचा सुते ॥

पुरूतमम् । पुरूणाम् । ईशानम् । वार्याणाम् । इन्द्रम् । सोमे । सचा । सुते ॥७४१॥

Samveda - Mantra Number : 741
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (पुरूणाम्) पूर्णानां पालकानां वा (पुरूतमम्२)पूर्णतमं पालकतमं वा। [पॄ पालनपूरणयोः इत्यस्मात् ‘पृभिदिव्यधिगृधिधृषिहृषिभ्यः। उ० १।२३’ इत्यनेन कुः प्रत्ययः।] (वार्याणाम्) वरणीयानां गुणानाम् (ईशानम्) अधीश्वरम् (इन्द्रम्)परमात्मानं प्रति (सुते) श्रद्धारसे अभिषुते सति (सचा) सम्मिल्य, ‘प्रगायत’ इति पूर्वमन्त्रादाकृष्यते, स्तुतिगीतानि गायत ॥२॥३
Essence
यः स्वयं पूर्णोऽन्येषां च पूरको निखिलगुणगणविभूषितः परमेश्वरोऽस्ति स सर्वैः सम्मिल्य श्रद्धया समुपास्यः ॥२॥
Subject
आत्मोद्बोधनानन्तरमथ परमात्मविषयमाह।
Footnote
१. ऋ० १।५।२, अथ० २०।६८।१२। २. पुरुतमं पुरून् बहून् शत्रून् तामयति ग्लापयतीति पुरुतमः, तमु ग्लानौ इति धातोर्ण्यन्तात् पचाद्यचि चित्त्वादन्तोदात्तेऽपि पा० ६।१।१६३ कृदुत्तरपदप्रकृतिस्वरं पा० ६।२।१३ बाधित्वा “परादिश्छन्दसि बहुलम्” पा० ६।२।१९९ इत्युत्तरपदाद्युदात्तत्वम्—इति सा०। तत्तु पदकारविरुद्धम् पदपाठेऽवग्रहाभावात्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं परमात्मपक्षे भौतिकवायुपक्षे च व्याचष्टे।