Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 74

1875 Mantra
Devata- अग्निः Rishi- वत्सप्रिर्भालन्दनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣢ भू꣣र्ज꣡य꣢न्तं म꣣हां꣡ वि꣢पो꣣धां꣢ मू꣣रै꣡रमू꣢꣯रं पु꣣रां꣢ द꣣र्मा꣡ण꣢म् । न꣡य꣢न्तं गी꣣र्भि꣢र्व꣣ना꣡ धियं꣢꣯ धा꣣ ह꣡रि꣢श्मश्रुं꣣ न꣡ वर्मणा꣢꣯ धन꣣र्चि꣢म् ॥७४॥

प्र꣢ । भूः꣣ । ज꣡य꣢꣯न्तम् । म꣣हा꣢म् । वि꣣पोधा꣢म् । वि꣣पः । धा꣢म् । मू꣣रैः꣢ । अ꣡मू꣢꣯रम् । अ꣢ । मू꣣रम् । पुरा꣢म् । द꣣र्मा꣡ण꣢म् । न꣡य꣢꣯न्तम् । गी꣣र्भिः꣢ । व꣣ना꣢ । धि꣡य꣢꣯म् । धाः꣢ । ह꣡रि꣢꣯श्मश्रुम् । ह꣡रि꣢꣯ । श्म꣣श्रुम् । न꣢ । व꣡र्म꣢꣯णा । ध꣣नर्चि꣢म् ॥७४॥

Mantra without Swara
प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम् ॥

प्र । भूः । जयन्तम् । महाम् । विपोधाम् । विपः । धाम् । मूरैः । अमूरम् । अ । मूरम् । पुराम् । दर्माणम् । नयन्तम् । गीर्भिः । वना । धियम् । धाः । हरिश्मश्रुम् । हरि । श्मश्रुम् । न । वर्मणा । धनर्चिम् ॥७४॥

Samveda - Mantra Number : 74
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्य ! त्वम् (प्र भूः२) समर्थः प्रकृष्टगुणो वा भव। प्र पूर्वाद् भवतेर्लोडर्थे लुङ्। ‘बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः। किञ्च, (जयन्तम्) विजेतारम्, (महाम्) महान्तम्। मह शब्दाद् द्वितीयैकवचने महम् इति प्राप्ते सुपां सुलुक्०’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (विपोधाम्) विपसां मेधाविनां धर्तारम्। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (मूरैः३) मारयन्तीति मूराः धातुकाः तैरपि (अमूरम्) मारयितुमशक्यम्, (पुराम्) शत्रुनगरीणाम् (दर्म्माणम्) विदारयितारम्।  विदारणे अन्येभ्योऽपि दृश्यते।’ अ० ३।२।७५ इति मनिन्। (गीर्भिः) स्तुतिवाग्भिः (वना ४) वनं संभजनीयम्। वन सम्भक्तौ। वन्यते संभज्यते इति वनम्। ततो द्वितीयैकवचने सुपां, सुलुक्० इति विभक्तेराकारादेशः। (धियम्) प्रज्ञां कर्म वा। धीः प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (नयन्तम्) प्रापयन्तम्, (हरिश्मश्रुं न) हरिं स्वर्णिमं श्मश्रु किरणकूर्चकं यस्य स हरिश्मश्रुः सूर्यः तमिव (वर्मणा) रक्षणेन हेतुना (धनर्चिम्५) धनभूतरोचिष्कम्, दीप्तिधनम् इत्यर्थः। धनम् अर्चिः रोचिः यस्य तम्। धनार्चिम् इति प्राप्ते शकन्ध्वादित्वात् पररूपम्। (अग्निम्) परमात्मानम्, वीरपुरुषं वा (धाः) स्वहृदये धत्स्व, राजपदेऽर्भिषिञ्च वा। डुधाञ् धातोर्लोडर्थे लुङ्, अडागमाभावः ॥२॥ अत्रोपमाऽर्थश्लेषश्चालङ्कारः ॥२॥
Essence
सर्वैः प्रजाजनैः समर्थैर्गुणवद्भिश्च भूत्वा सकलरिपुविजेता, महामहिमोपेतः, कोविदानां सुहृद्, हिंस्रैरपि हिंसितुमशक्यो, रिपुदुर्गाणां विदारकः, स्तुतिभिः संभजनीयो, ज्ञानप्रदायकः, सत्कर्मसु प्रेरकः, सूर्यवद् रोचिष्णुः परमात्मा पूजनीयस्तादृशो वीरजनश्च राजपदे प्रतिष्ठापनीयः ॥२॥
Subject
अथ कीदृशः परमेश्वरः पूजनीयः, कीदृशः पुरुषश्च राजपदे स्थापनीय इत्याह।
Footnote
˜१. ऋ० १०।४६।५ पूर्वार्धे मूरा अमूरं इति, उत्तरार्धे च नयन्तो गर्भं वना धियं धुर्हरिश्मश्रुं नार्वाणं धनर्चम् इति पाठः। २. प्रभूः इत्याख्यातम्, अनुदात्तत्वात् पञ्चमलकारान्तम्। प्रभूः प्रगच्छ उपगच्छ अग्निं हे स्तोतः—इति भ०। प्रभूः स्तोतुं प्रभव समर्थो भव—इति सा०। विवरणकृन्मते तु भूः इति सुबन्तं पदम्, तत्र स्वरो न संगच्छते। ३. मूर इति मूढनाम। मूढैरसुरैः सार्धम्, पुराम् आसुरीणाम्, दर्माणं दारयितारम्। अमूरम् अमूढम्—इति भ०। ४. वना वननीयं संभजनीयम्—इति भ०, सा०। ५. इकारान्तोऽपि अर्चिशब्दः वेदे बहुत्र प्रयुज्यते। यथा—अर्चयः ऋ० १।३६।३, य० १२।१०६, अर्चिभिः ऋ० ५।७९।८, साम ३७, अथ० ८।३।२३। धनर्चिं धनेन अर्चितारं, धनस्य पूजयितारम्—इति वि०। धनं प्रीणनम् अर्चिः अर्चनं स्तोत्रं यस्य सः’—इति भ०।