Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 738

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢स्ते꣣ अ꣡नु꣢ स्व꣣धा꣡मस꣢꣯त्सु꣣ते꣡ नि य꣢꣯च्छ त꣣꣬न्व꣢꣯म् । स꣡ त्वा꣢ ममत्तु सोम्य ॥७३८॥

यः꣢ । ते꣣ । अ꣡नु꣢꣯ । स्व꣣धा꣢म् । स्व꣡ । धा꣢म् । अ꣡स꣢꣯त् । सु꣣ते꣢ । नि । य꣣च्छ । त꣢꣯न्व꣢म् । सः । त्वा꣣ । ममत्तु । सोम्य ॥७३८॥

Mantra without Swara
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्य ॥

यः । ते । अनु । स्वधाम् । स्व । धाम् । असत् । सुते । नि । यच्छ । तन्वम् । सः । त्वा । ममत्तु । सोम्य ॥७३८॥

Samveda - Mantra Number : 738
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मदीय अन्तरात्मन् ! (यः) ब्रह्मानन्दरसः (ते) तव (स्वधाम् अनु) आनन्दभोगेच्छानुकूलम् (असत्) उत्पन्नोऽस्ति। [अस्तेर्लेटि रूपम्। यद्वृत्तनियोगान्निघाताभावः।] तस्मिन् ब्रह्मानन्दरूपे सोमरसे (सुते) अनुभूते सति, त्वम् (तन्वम्२) स्वकीयं शरीरम् (नियच्छ) यमनियमरज्जुभिः सन्नियन्त्रय चालय। हे (सोम्य३) सौम्य आत्मन् ! (सः) ब्रह्मानन्दरसः (त्वा) त्वाम् (ममत्तु) हर्षयतु तरङ्गयतु च ॥२॥४
Essence
उपासनया यदा ब्रह्मानन्दरस आत्मानं प्राप्नोति तदा शरीरस्य मनोबुद्धिप्राणेन्द्रियादीनां चापि सर्वे व्यवहाराः सात्त्विका एव जायन्ते ॥२॥
Subject
अथ पुनरप्यात्मानं सम्बोधयति।
Footnote
१. ऋ० ३।५१।११, ‘सो॒म्य’ इत्यत्र ‘सोम्यम्’ इति पाठः। २. ‘छन्दस्युभयथा’ (अ० ६।४।८६) इति सूत्रस्थेन ‘तन्वादीनां छन्दसि बहुलम्’ इति वार्तिकवचनेनोवङो वैकल्पिकत्वं बोध्यम्—इति सामश्रमी। ३. सोम्य सौमार्ह—इति सा०। सोमानां स्वामिन् पते—इति वि०। ४. इममपि मन्त्रमृग्भाष्ये दयानन्दर्षी राजविषये व्याचष्टे।