Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 737

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣द꣡ꣳ ह्यन्वोज꣢꣯सा सु꣣त꣡ꣳ रा꣢धानां पते । पि꣢बा꣣ त्वा꣢३स्य꣡ गि꣢र्वणः ॥७३७॥

इ꣣द꣢म् । हि । अ꣡नु꣢꣯ । ओ꣡ज꣢꣯सा । सु꣣त꣢म् । रा꣣धानाम् । पते । पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣣र्व꣡णः । गिः । वनः ॥७३७॥

Mantra without Swara
इदꣳ ह्यन्वोजसा सुतꣳ राधानां पते । पिबा त्वा३स्य गिर्वणः ॥

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते । पिब । तु । अस्य । गिर्वणः । गिः । वनः ॥७३७॥

Samveda - Mantra Number : 737
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (राधानां पते) सदिच्छामहत्त्वाकाङ्क्षासत्प्रयत्नसुखज्ञानादीनां स्वामिन् मदीय अन्तरात्मन् ! (इदं हि) एष खलु ब्रह्मानन्दरसः (ओजसा) बलेन वेगेन च (अनु सुतम्) आनुकूल्येन अभिषुतः अस्ति। हे (गिर्वणः) गीर्भिः प्रभुभक्तिपरायण आत्मन् ! [गीर्भिः वनति संभजते यः स गिर्वणाः, तत्सम्बुद्धौ।] त्वम् (अस्य) एतं ब्रह्मानन्दरूपं सोमरसम् (तु) शीघ्रम् (पिब) आस्वादय ॥१॥२
Essence
योगानुष्ठानेन ब्रह्मानन्दरसप्रवाहसन्ततिर्यदाऽऽत्मानं व्याप्नोति तदा योगी कृतकृत्यो जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १६५ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र स्वात्मानं सम्बोधयति।
Footnote
१. ऋ० ३।५१।१०, साम० १६५। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजविषये व्याख्यातः।