Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 736

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गो꣡भिः꣢ स्वा꣣दु꣡म꣢कर्म श्री꣣ण꣡न्तः꣢ । इ꣡न्द्र꣢ त्वा꣣स्मिं꣡त्स꣢ध꣣मा꣡दे꣢ ॥७३६॥

तम् । ते꣣ । य꣡व꣢꣯म् । य꣡था꣢꣯ । गो꣡भिः꣢꣯ । स्वा꣣दु꣢म् । अ꣣कर्म । श्रीण꣡न्तः꣢ । इ꣡न्द्र꣢꣯ । त्वा꣣ । अस्मि꣣न् । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ ॥७३६॥

Mantra without Swara
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । इन्द्र त्वास्मिंत्सधमादे ॥

तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः । इन्द्र । त्वा । अस्मिन् । सधमादे । सध । मादे ॥७३६॥

Samveda - Mantra Number : 736
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे शिष्य ! (तम्) ब्रह्मविज्ञानरूपं सोमरसम् (गोभिः) मधुराभिः वाग्भिः (श्रीणन्तः) परिपचन्तः वयम्। [श्रीञ् पाके, क्र्यादिः।] (स्वादुम्) मधुरम् (अकर्म२) अकार्ष्म। कथमिव ? (यथा) येन प्रकारेण (यवम्) यवरसम् (गोभिः) गव्यैः क्षीरैः स्वादुं कुर्मः तद्वत्। हे (इन्द्र) प्रिय शिष्य ! (अस्मिन्) एतस्मिन् (सधमादे) सह माद्यन्ति ब्रह्मज्ञानदानेन शिष्या अत्र इति सधमादः विद्यायज्ञः तत्र (त्वा) त्वाम् ब्रह्मज्ञानरसं पातुम् आह्वयाम इति शेषः ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥
Essence
गुरुभिः शिष्येभ्यो लौकिकं ज्ञानं ब्रह्मज्ञानं च नीरसरूपेण न किन्तु सरसरूपेण प्रदातव्यं, येन तत्र तेषां रुचिर्भवेत् ॥३॥ अस्मिन् खण्डे गुरुशिष्यविषयस्य, परमेश्वरजीवात्मविषयस्य, ब्रह्मज्ञानविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ८।२।३। २. करोतेर्लुङि ‘मन्त्रे घस०’ पा० २।४।८० इति च्लेर्लुक्—इति सा०।