Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 735

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः । अ꣢श्वो꣣ न꣢ नि꣣क्तो꣢ न꣣दी꣡षु꣢ ॥७३५॥

नृ꣡भिः꣢꣯ । धौ꣣तः꣢ । सु꣣तः꣢ । अ꣡श्नैः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯पूतः । प꣡रि꣢꣯ । पू꣣तः । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । न꣣दी꣡षु꣢ ॥७३५॥

Mantra without Swara
नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः । अश्वो न निक्तो नदीषु ॥

नृभिः । धौतः । सुतः । अश्नैः । अव्याः । वारैः । परिपूतः । परि । पूतः । अश्वः । न । निक्तः । नदीषु ॥७३५॥

Samveda - Mantra Number : 735
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे शिष्य ! मया तुभ्यं दीयमानः एष ब्रह्मविज्ञानरसः (नृभिः) उन्नायकैः सद्विचारैः (धौतः) प्रक्षालितः अस्ति, (अश्नैः) अश्मभिरिव कठोरैः व्रताचरणैः (सुतः) अभिषुतः अस्ति, (अव्याः) रक्षिकायाः बुद्धेः (वारैः) दोषनिवारयितृभिः तर्कैः (परिपूतः) पवित्रीकृतः अस्ति, किञ्च, (नदीषु) सरित्प्रवाहेषु (निक्तः) स्नानेन शोधितः (अश्वः न) तुरगः इव (नदीषु) वेदवाग्धारासु (निक्तः३) शोधितः विद्यते ॥२॥ अत्र श्लिष्टोपमालङ्कारः। किञ्च श्लेषेण सोमौषधिपक्षेऽप्यर्थो योजनीयः। तेन ब्रह्मविज्ञानं सोमरस इवेत्युपमानोपमेयभावो द्योत्यते ॥२॥
Essence
यथा ऋत्विजः सोमलतां पवित्रेण जलेन प्रक्षाल्य पाषाणैः कुट्टयित्वा रसं निश्चोत्य दशापवित्रेण परिपूय शुद्धं सोमरसम् अग्नौ जुह्वति तथैव गुरवो ब्रह्मविद्यालतां सद्विचारैः प्रक्षाल्य, कठोरव्रताचरणैः संकुट्ट्य, बुद्धेस्तर्कैः परिपूय, वेदवाग्धारासु पवित्रीकृत्य शिष्यस्यात्माग्नौ जुह्वति ॥२॥
Subject
अथ कीदृशः स ब्रह्मविज्ञानरस इत्याह।
Footnote
२. ऋ० ८।२।२, ‘नृ॒भि॑र्धू॒तः’, ‘रव्यो॒वारैः॒’ इति पाठः। ३. निक्तः निर्णिक्तः शोधितः। यथा अप्सु स्नातो अश्वः अपगतमलः सन् दीप्तो भवति—इति सा०। निक्तः स्नातः—इति वि०।