Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 734

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣द꣡म् व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म् । अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥७३४॥

इ꣣द꣢म् । वसो । सुत꣢म् । अ꣡न्धः꣢꣯ । पि꣡ब꣢꣯ । सु꣡पू꣢꣯र्णम् । सु । पू꣣र्णम् । उद꣡र꣢म् । उ꣣ । द꣡र꣢꣯म् । अ꣡ना꣢꣯भयिन् । अन् । आ꣣भयिन् । ररिम꣢ । ते꣣ ॥७३४॥

Mantra without Swara
इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥

इदम् । वसो । सुतम् । अन्धः । पिब । सुपूर्णम् । सु । पूर्णम् । उदरम् । उ । दरम् । अनाभयिन् । अन् । आभयिन् । ररिम । ते ॥७३४॥

Samveda - Mantra Number : 734
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसो) गुरुकुले कृतनिवास व्रतपालक ब्रह्मचारिन् ! (इदम् अन्धः) एतद् ब्रह्मविज्ञानम् तुभ्यम् (सुतम्) अभिषुतमस्ति, त्वम् एतत् (सुपूर्णम् उदरम्) कणेहत्य (पिब) आस्वादय। हे (अनाभयिन्) निर्भय शिष्य ! वयम् (ते) तुभ्यम्, एतद् विज्ञानम् (ररिम) प्रयच्छामः ॥१॥
Essence
कृतब्रह्मसाक्षात्कारैर्गुरुभिश्छात्रा ब्रह्मज्ञानदानेनानुग्राह्याः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १२४ क्रमाङ्गे परमात्मविषयेऽतिथिविषये च व्याख्याता। अत्र गुरवः शिष्यं ब्रह्मज्ञानरसं पाययन्ति।
Footnote
१. ऋ० ८।२।१, साम० १२४।