Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 733

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣ह꣢ त्वा꣣ गो꣡प꣢रीणसं म꣣हे꣡ म꣢न्दन्तु꣣ रा꣡ध꣢से । स꣡रो꣢ गौ꣣रो꣡ यथा꣢꣯ पिब ॥७३३॥

इह꣢ । त्वा꣣ । गो꣡प꣢꣯रीणसम् । गो । प꣣रीणसम् । महे꣣ । म꣣न्दन्तु । रा꣡ध꣢꣯से । स꣡रः꣢꣯ । गौ꣣रः꣢ । य꣡था꣢꣯ । पि꣢ब ॥७३३॥

Mantra without Swara
इह त्वा गोपरीणसं महे मन्दन्तु राधसे । सरो गौरो यथा पिब ॥

इह । त्वा । गोपरीणसम् । गो । परीणसम् । महे । मन्दन्तु । राधसे । सरः । गौरः । यथा । पिब ॥७३३॥

Samveda - Mantra Number : 733
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मदीय अन्तरात्मन् ! (इह) अस्मिन् देहे (गोपरीणसम्) गावः मनोबुद्धिप्राणेन्द्रियादिरूपाः परीणसा बह्वयो यस्य तादृशम्। [परीणसा इति बहुनाम। निघं० ३।१।] (त्वा) त्वाम्, अस्मदीया उद्बोधनवाचः (महे राधसे) महते ऐश्वर्याय, (महदैश्वर्यं) प्राप्तुमित्यर्थः (मन्दन्तु) उत्साहयन्तु। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु भ्वादिः परस्मैपदं छान्दसम्।] (गौरः) गौरमृगः, पिपासाक्रान्तो (यथा) यद्वत् उत्कण्ठया (सरः) उदकं पिबति, तथैव त्वम् (सरः२) वेदवाग्रसं ज्ञानरसं कर्मरसं ब्रह्मानन्दरसं च (पिब) आस्वादय। [सरः इति वाङ्नाम उदकनाम च। निघं० १।११।, १।१२] ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥
Essence
मनुष्यैरात्मानमुद्बोध्य स्वमहत्त्वाकाङ्क्षानुरूपं सर्वा लौकिक्यो दिव्याश्च सम्पदः प्राप्तुं शक्यन्ते ॥३॥
Subject
अथ पुनरप्यन्तरात्मानमुद्बोधयति।
Footnote
१. ऋ० ८।४५।२४, अथ० २०।२२।३, उभयत्र ‘गोप॑रीणसा’ इति पाठः। २. ‘सरन्ति जानन्ति येन तत् सरो ज्ञानम्’ इति य० २।२० भाष्ये, ‘सरो वेदादिशास्त्रविज्ञानम्’ इति च य० ९।२७ भाष्ये द०।