Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 73

1875 Mantra
Devata- अग्निः Rishi- बुधगविष्टिरावात्रेयौ Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣡बो꣢ध्य꣣ग्निः꣢ स꣣मि꣢धा꣣ ज꣡ना꣢नां꣣ प्र꣡ति꣢ धे꣣नु꣡मि꣢वाय꣣ती꣢मु꣣षा꣡स꣢म् । य꣣ह्वा꣡ इ꣢व꣣ प्र꣢ व꣣या꣢मु꣣ज्जि꣡हा꣢नाः꣣ प्र꣢ भा꣣न꣡वः꣢ सस्रते꣣ ना꣢क꣣म꣡च्छ꣢ ॥७३॥

अ꣡बो꣢꣯धि । अ꣣ग्निः꣢ । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । ज꣡ना꣢꣯नाम् । प्र꣡ति꣢꣯ । धे꣣नु꣢म् । इ꣣व । आयती꣢म् । आ꣣ । यती꣢म् । उ꣣षा꣡स꣢म् । य꣣ह्वाः꣢ । इ꣣व । प्र꣢ । व꣣या꣢म् । उ꣣ज्जि꣡हा꣢नाः । उ꣣त् । जि꣡हा꣢꣯नाः । प्र । भा꣣न꣡वः꣢ । स꣣स्रते । ना꣡क꣢꣯म् । अ꣡च्छ꣢꣯ ॥७३॥

Mantra without Swara
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥

अबोधि । अग्निः । समिधा । सम् । इधा । जनानाम् । प्रति । धेनुम् । इव । आयतीम् । आ । यतीम् । उषासम् । यह्वाः । इव । प्र । वयाम् । उज्जिहानाः । उत् । जिहानाः । प्र । भानवः । सस्रते । नाकम् । अच्छ ॥७३॥

Samveda - Mantra Number : 73
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(धेनुम् इव) दोग्ध्रीं गामिव (आयतीम्) आगच्छन्तीम् (उषासम् प्रति२) उषसम् अभिलक्ष्य, उषःकाले इत्यर्थः। उषासम् इत्यत्र अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः। (समिधा) इध्मेन, आत्मसमर्पणरूपेण समिद्धोमेन वा। आत्मा वा इध्मः। तै० सं० ३।२।१०।३। (अग्निः) यज्ञाग्निः परमात्माग्निर्वा (अबोधि) यज्ञवेद्यां हृदयवेद्यां वा प्रबुद्धो जातः। (वयाम्) शाखाम्। वयाः शाखाः वेतेः, वातायना भवन्ति। निरु० १।७। (प्र उज्जिहानाः३) प्रोद्गमयन्तः। ओहाङ् गतौ, शानच्। (यह्वाः४ इव) महान्तो वृक्षाः इव। यह्व इति महन्नाम। निघं० ३।३। (भानवः) यज्ञवह्नेः ज्वालाः, परमात्माग्नेः तेजोरश्मयो वा (नाकम् अच्छ) सूर्यं जीवात्मानं वा प्रति। नाक इति द्युलोकस्य सूर्यस्य च साधारणं नाम। निघं० १।४। (प्र सस्रते) प्रसरन्ति। प्र पूर्वात् सृ गतौ धातोर्लिटि प्रथमपुरुषबहुवचने रूपम्, व्यत्ययेनात्मनेपदम् ॥१०॥५ अत्र यज्ञाग्निपरमात्माग्निरूपार्थद्वयप्रकाशनाच्छ्लेषालङ्कारः। धेनुमिव, यह्वा इव इत्युभयत्र चोपमालङ्कारः ॥१॥
Essence
पयस्विन्यो धेनव इव प्रकाशपूर्णा उषस्ते नभसि भुवि च विकीर्णाः सन्ति। अस्मिन् शान्तिदायके प्रभाते यथाऽग्निहोत्रिणो यज्ञवेद्यां यज्ञाग्निं प्रदीपयन्ति, तथाऽध्यात्मयाजिनो हृदि परमात्मानं प्रबोधयन्ति। यथा विशालवृक्षाणां शिखरशाखा आकाशं प्रति गच्छन्ति तथा यज्ञवेद्यां प्रज्वलितस्य यज्ञाग्नेर्ज्वालाः सूर्य प्रति, हृदि समुद्बुद्धस्य परमात्मनस्तेजांसि च जीवात्मानं प्रति प्रयान्ति ॥१॥
Subject
अथोषसि यज्ञाग्निपरमात्माग्न्योः समिन्धनविषयमाह।
Footnote
१. ऋ० ५।१।१, य० १५।२४ ऋषिः परमेष्ठी, साम १७४६, अ० १३।२।४६ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। २. उषासम् उषसं प्रति उदयकाले इत्यर्थः—इति वि०। उषःकाले—इति भ०, सा०। ३. प्रोज्जिहानाः प्रोद्गमयन्तः—इति भ०। प्रोद्गमयन्तो वृक्षा इव—इति सा०। ४. यह्वाः महान्त इव वृक्षाः—इति भ०। महान्तो वृक्षा इव—इति ऋ० ५।१।१ भाष्ये द०। ५. दयानन्दर्षिमन्त्रमिमम् ऋग्भाष्ये उपदेश्योपदेशकविषये यजुर्भाष्ये चाग्निविद्याविषये व्याख्यातवान्।