Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 729

1875 Mantra
Devata- इन्द्रः Rishi- कुसीदी काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣣द्मा꣡ हि त्वा꣢꣯ तुविकू꣣र्मिं꣢ तु꣣वि꣡दे꣢ष्णं तु꣣वी꣡म꣢घम् । तु꣣विमात्र꣡मवो꣢꣯भिः ॥७२९॥

वि꣣द्म꣢ । हि । त्वा꣣ । तुविकूर्मि꣣म् । तु꣢वि । कूर्मि꣢म् । तु꣣वि꣡दे꣢ष्णम् । तु꣣वि꣢ । दे꣣ष्णम् । तु꣣वी꣡म꣢घम् । तु꣣वि꣢ । म꣣घम् । तुविमात्र꣢म् । तु꣣वि । मात्र꣢म् । अ꣡वो꣢꣯भिः ॥७२९॥

Mantra without Swara
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । तुविमात्रमवोभिः ॥

विद्म । हि । त्वा । तुविकूर्मिम् । तुवि । कूर्मिम् । तुविदेष्णम् । तुवि । देष्णम् । तुवीमघम् । तुवि । मघम् । तुविमात्रम् । तुवि । मात्रम् । अवोभिः ॥७२९॥

Samveda - Mantra Number : 729
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र सर्वान्तर्यामिन् परब्रह्म ! वयम् (हि) निश्चयेन (त्वा) त्वाम् (तुविकूर्मिम्१) बहूनां सर्जनधारणपालनादिकर्मणां कर्त्तारम्। [तुवि इति बहुनाम। निघं० ३।१। कूर्मिः इत्यत्र करोतेरौणादिको मिः प्रत्ययः] (तुविदेष्णम्२) बहूनां पदार्थानां सुखादीनां च दातारम्। [दिश अतिसर्जने धातोः औणादिकः नः प्रत्ययः। मूर्धन्यादेशश्छान्दसः।] (तुवीमघम्) बहुधनम्, अपि च (अवोभिः) रक्षणैः सह (तुविमात्रम्) बहूनां सूर्यचन्द्रतारामण्डलादीनां परिमातारम् (विद्म) जानीमः ॥२॥
Essence
परमेश्वरस्य गुणकर्मस्वभावान् विज्ञाय तदुपकारान् प्रति कृतज्ञता सर्वैर्ज्ञापनीया ॥२॥
Subject
अथाचार्याद् गृहीतब्रह्मविद्याः शिष्या ब्रह्मणः स्वरूपमाहुः।
Footnote
२. ऋ० ८।८१।२। १. तुविकूर्मि बहुकर्माणम्—इति सा०। तुविशब्दो बहुवाची, कूर्मिशब्दो मनुष्यवाची कर्मवाची वा—इति वि०। २. तुविदेष्णम् बहुप्रदेयम्—इति सा०। देष्णं दानम्, बहुदानम्—इति वि०।