Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 727

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡स्ते꣢ शृङ्गवृषो णपा꣣त्प्र꣡ण꣢पात्कुण्ड꣣पा꣡य्यः꣢ । न्य꣢꣯स्मिन् दध्र꣣ आ꣡ मनः꣢꣯ ॥७२७॥

यः꣢ । ते꣣ । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्र꣡ण꣢꣯पात् । प्र । न꣣पात् । कुण्डपा꣡य्यः꣢ । कु꣣ण्ड । पा꣡य्यः꣢꣯ । नि । अ꣣स्मिन् । दध्रे । आ꣢ । म꣡नः꣢꣯ ॥७२७॥

Mantra without Swara
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः । न्यस्मिन् दध्र आ मनः ॥

यः । ते । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्रणपात् । प्र । नपात् । कुण्डपाय्यः । कुण्ड । पाय्यः । नि । अस्मिन् । दध्रे । आ । मनः ॥७२७॥

Samveda - Mantra Number : 727
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शृङ्गवृषः नपात्२) शृङ्गैः रश्मिभिः वर्षतीति शृङ्गवृट् सूर्यः तस्य न पातयितः निरालम्बमेव गगने स्थापयितः जगदीश्वर ! (यः ते) यः तव (प्र नपात्) प्रकर्षेण न पातयिता, प्रत्युत रक्षकः, (कुण्डपाय्यः३) समुद्ररूपाणि कुण्डानि पीयन्ते यस्मिन् तादृशः वृष्टिरूपो यज्ञः अस्ति। [‘क्रतौ कुण्डपाय्यसंचाय्यौ’ अ० ३।१।१३० इत्यनेन क्रत्वर्थे निपात्यते।] (अस्मिन्) एतस्मिन् उपासकाः (मनः) स्वीयचित्तम् (आ निदध्रे) आ निदधिरे, निहितं कुर्वन्ति। [‘इरयो रे’। अ० ६।४।७६ इति इरे इत्यस्य रे भावः] ॥३॥
Essence
यथा सूर्यः समुद्रकुण्डानि पीत्वा मेघान् निर्माय वृष्टिं करोति तथैव जनैरपि धनान्यर्जयित्वा योगसिद्धीश्च प्राप्य सत्पात्रेषु तद्वृष्टिर्विधेया ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ८।१७।१३, अथ० २०।५।७। २. गृणन्ति हिंसन्तीति शृङ्गाणि रश्मयः तैर्वर्षतीति शृङ्गवृड् आदित्यः, तस्य न पातयितः स्वकीयेऽवस्थानेऽवस्थापयितः। ‘सुबामन्त्रिते’ पा० २।१।२ इति षष्ठ्यन्तस्य पराङ्गवद्भावेनामन्त्रितानुप्रवेशात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम्—इति सा०। ३. कुण्डैः पीयते अस्मिन् सोम इति कुण्डपाय्यः क्रतुविशेषः—इति सा०। अत्र कुण्डाश्चमसाः कुण्डप्रतिरूपाः तैः पीयते कुण्डपाय्यः—इति वि०।