Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 726

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
शा꣡चि꣢गो꣣ शा꣡चि꣢पूजना꣣य꣡ꣳ रणा꣢꣯य ते सु꣣तः꣢ । आ꣡ख꣢ण्डल꣣ प्र꣡ हू꣢यसे ॥७२६॥

शा꣡चि꣢꣯गो । शा꣡चि꣢꣯ । गो꣣ । शा꣡चि꣢꣯पूजन । शा꣡चि꣢꣯ । पू꣣जन । अय꣢म् । र꣡णा꣢꣯य । ते꣣ । सुतः꣢ । आ꣡ख꣢꣯ण्डल । प्र । हू꣡यसे ॥७२६॥

Mantra without Swara
शाचिगो शाचिपूजनायꣳ रणाय ते सुतः । आखण्डल प्र हूयसे ॥

शाचिगो । शाचि । गो । शाचिपूजन । शाचि । पूजन । अयम् । रणाय । ते । सुतः । आखण्डल । प्र । हूयसे ॥७२६॥

Samveda - Mantra Number : 726
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शाचिगो३) शाचयः ज्ञानकर्मोपदेशिकाः गावः वेदवाचः यस्य तादृश जगदीश्वर ! हे (शाचिपूजन) शाचिभिः ज्ञानिभिः पुरुषार्थिभिश्च पूज्यते यः तादृश परमात्मन् ! [शचीशब्दस्य प्रज्ञानामसु निघं० ३।९ कर्मनामसु च निघं० २।१ पाठात् शच धातुः ज्ञानकर्मार्थो बोध्यः।] (अयम्) एषः भक्तिरसः (ते) तव (रणाय) रमणाय (सुतः) अस्माभिः उत्पादितः अस्ति। हे (आखण्डल) दुःखदुर्गुणदुर्व्यसनादीनाम् आखण्डयितः देव ! त्वम् तं भक्तिरसं प्रति (प्रहूयसे) अस्माभिः प्रकृष्टतया सोत्कण्ठम् आहूयसे ॥२॥
Essence
ज्ञानपुरुषार्थपूर्वकं भक्तिभावेनाराधितः परमेश्वर उपासकानां दुःखदारिद्र्यादिकं विखण्ड्य तान् ऋद्धिसिद्धिप्रदानेन सुखयति ॥२॥
Subject
गुरोरध्यात्मविद्याग्रहणानन्तरं शिष्याः परमेश्वरमाह्वयन्ति।
Footnote
२. ऋ० ८।१७।१२, अथ० २०।५।६। ३. शाचयः शक्ता गावो यस्य स शाचिगुः, यद् वा शच व्यक्तायां वाचि अस्मादौणादिक इञ् प्रत्ययः। शाचयः व्यक्ताः प्रख्याता गावो रश्मयो वा यस्य तादृशः—इति सा०। शचीति कर्मनाम, कर्मणि प्रयुक्ते गावः प्रदीयन्ते यस्य असौ शाचिगुः। कर्मणि पूज्यते इति शाचिपूजनः—इति वि०।