Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 725

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣यं꣡ त꣢ इन्द्र꣣ सो꣢मो꣣ नि꣡पू꣢तो꣣ अ꣡धि꣢ ब꣣र्हि꣡षि꣢ । ए꣡ही꣢म꣣स्य꣢꣫ द्रवा꣣ पि꣡ब꣢ ॥७२५॥

अ꣣य꣢म् । ते꣣ । इन्द्र । सो꣡मः꣢꣯ । नि꣡पूतः꣢꣯ । नि । पू꣣तः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । आ । इ꣣हि । ईम् । अस्य꣢ । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥७२५॥

Mantra without Swara
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीमस्य द्रवा पिब ॥

अयम् । ते । इन्द्र । सोमः । निपूतः । नि । पूतः । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब ॥७२५॥

Samveda - Mantra Number : 725
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
आचार्यो ब्रूते—हे (इन्द्र) शिष्यस्य अन्तरात्मन् ! (अयम्) एषः (सोमः) अध्यात्मविद्यारसः (ते) तुभ्यम् (बर्हिषि अधि) विद्यायज्ञे (निपूतः) नितरां पवित्रीकृतोऽस्ति। (एहि) आगच्छ, (ईम्) एनं प्रति (द्रव) त्वरस्व, (अस्य) एतस्य अध्यात्मविद्यारसस्य (पिब) आस्वादनं कुरु ॥१॥
Essence
यस्य आत्माऽध्यात्मविद्याग्रहणाय प्रकाममुत्कण्ठितः स एव गुरोः सकाशाद् ब्रह्मज्ञानमधिगन्तुमर्हति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५९ क्रमाङ्के भक्तिरसविषये व्याख्याता। अत्र ज्ञानरसविषयः प्रस्तूयते।
Footnote
१. ऋ० ८।१७।११, अथ० २०।५।५, साम० १५९।