Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 724

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्रि꣡क꣢द्रुकेषु꣣ चे꣡त꣢नं दे꣣वा꣡सो꣢ य꣣ज्ञ꣡म꣢त्नत । त꣡मि꣢꣯द्वर्धन्तु नो꣣ गि꣡रः꣢ ॥७२४॥

त्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । चे꣡तन꣢꣯म् । दे꣣वा꣡सः꣢ । य꣣ज्ञ꣢म् । अ꣣त्नत । त꣣म् । इत् । व꣣र्द्धन्तु । नः । गि꣡रः꣢꣯ ॥७२४॥

Mantra without Swara
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । तमिद्वर्धन्तु नो गिरः ॥

त्रिकद्रुकेषु । त्रि । कद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत । तम् । इत् । वर्द्धन्तु । नः । गिरः ॥७२४॥

Samveda - Mantra Number : 724
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवासः) विद्वांसो जनाः (त्रिकद्रुकेषु२) त्रीणि कद्रुकाणि केन्द्रकीलकानि आत्ममनोबुद्ध्याख्यानि येषु तेषु व्यवहारेषु (चेतनम्) चेतयितारम् (यज्ञम्) उपासनायज्ञम् (अत्नत)विस्तारयन्ति। (तम् इत्) तमेव उपासनायज्ञम् (नः) अस्माकम्(गिरः) स्तुतिवाचः (वर्धन्तु) वर्धयन्तु ॥३॥
Essence
परमेश्वरोपासनया मनुष्यस्यात्मनि चेतनाप्रवाहो जागरूकता कर्तव्यनिष्ठा शूरता कर्मण्यता विजेतृता परोपकारितेत्यादयो गुणाः स्वत एव समायान्ति ॥३॥ अस्मिन् खण्डे जीवात्मपरमात्मगुरुशिष्यविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथोपासनायज्ञविषयमाह।
Footnote
१. ऋ० ८।१३।१८ अन्ते ‘स॒दावृ॑धम्’ इत्यधिकम्, ऋषिः नारदः काण्वः, छन्दः उष्णिक्। ८।९२।२१, अथ० २०।११०।३। २. त्रिकद्रुकेषु अभिप्लाविकेषु अहस्सु ज्योतिर्गौरायुरिति त्रिकद्रुकाः तेषु—इति सा०। ज्योतिर्गौरायुरितीति चतुर्थपञ्चमषष्ठानामाभि- प्लाविकानामह्नां नाम्नां प्रतीकमात्रम्। अस्ति गवामयनादिकं सत्रं, तच्च एकषष्ट्युत्तरत्रिशतदिननिर्वर्त्यं भवति। तत्र प्रायणीयोऽतिरात्रनाम प्रथममहः, चतुर्विंशनाम द्वितीयमहः, उक्थनाम तृतीयम्, ज्योतिर्गोः चतुर्थमहः, आयुर्गौः पञ्चममहः, आयुर्ज्योतिरिति नामकं षष्ठमहः। एतान्येव षडहानि आभिप्लाविकान्युच्यन्ते, तेष्वेव शेषाण्यहानि चतुर्थादीनि त्रीणि त्रिकद्रुकाणीति—सामश्रमी।