Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 723

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢स्मि꣣न्वि꣢श्वा꣣ अ꣢धि꣣ श्रि꣢यो꣣ र꣡ण꣢न्ति स꣣प्त꣢ स꣣ꣳस꣡दः꣢ । इ꣡न्द्र꣢ꣳ सु꣣ते꣡ ह꣢वामहे ॥७२३॥

य꣡स्मि꣢꣯न् । वि꣡श्वा꣢꣯ । अ꣡धि꣢꣯ । श्रि꣡यः꣢꣯ । र꣡ण꣢꣯न्ति । स꣣प्त꣢ । स꣣ꣳस꣡दः꣢ । स꣣म् । स꣡दः꣢꣯ । इ꣡न्द्र꣢꣯म् । सु꣡ते꣢ । ह꣣वामहे ॥७२३॥

Mantra without Swara
यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त सꣳसदः । इन्द्रꣳ सुते हवामहे ॥

यस्मिन् । विश्वा । अधि । श्रियः । रणन्ति । सप्त । सꣳसदः । सम् । सदः । इन्द्रम् । सुते । हवामहे ॥७२३॥

Samveda - Mantra Number : 723
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यस्मिन् अधि) यम् अधिष्ठाय (विश्वाः श्रियः) सर्वाः शोभाः विद्यन्ते, यं च (सप्त संसदः२) सप्तऋत्विजः, सप्तदिशः, सप्तविधाः सूर्यरश्मयः, सप्त छन्दांसि, सप्त मनोबुद्धिसहितानि ज्ञानेन्द्रियाणि, सप्त आकाशस्थाः ऋषयः (रणन्ति) स्तुवन्ति। [रण शब्दार्थः भ्वादिः।] तम् (इन्द्रम्) जगदीश्वरम् (सुते) उपासनायज्ञे जीवनयज्ञे वा वयम् (हवामहे) आह्वयामः ॥ सप्त ऋत्विजस्तावद् ऋग्वेदे २।१।२ इत्यत्र एवं परिगणिताः—होता, पोता, नेष्टा, अग्नीत्, प्रशास्ता, अध्वर्युः, ब्रह्मा इति ॥ यद्वा, त्रयः उद्गातारः, होता, मैत्रावरुणः, ब्राह्मणाच्छंसी, अच्छावाकश्च इत्येते सोमयागीयाः सप्त ऋत्विजः ॥ सप्त दिशस्तावत् प्राची, प्रतीची, दक्षिणा, उदीची, ध्रुवा, ऊर्ध्वा, केन्द्रगता च ॥ आकाशस्थाः सप्त ऋषयश्च मरीचिः, वसिष्ठः, अङ्गिराः, अत्रिः, पुलस्त्यः, पुलहः, क्रतुरिति ॥ ऋग्वेदे सप्तसंख्यकानि वस्तूनि एवमुदीरितानि—“स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑। दे॒वा आदि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव।” ऋ० ९।११४।३ इति। यजुर्वेदे २६।१ इत्यत्र सप्त संसदः एवमुक्ताः—‘अग्निः, वायुः, अन्तरिक्षम्, आदित्यः, द्यौः, आपः, वरुणश्चेति। अष्टमी च भूतसाधनी’ इति ॥२॥
Essence
ब्रह्माण्डस्थाः सर्वेऽपि दिग्विदिगादयः पदार्थाः, शरीरस्थाः सर्वेऽपि मनोबुद्ध्यादयः, यज्ञस्थाः सर्वेऽपि ऋत्विजश्च जगदीश्वरस्यैव महिमानं गायन्ति ॥२॥
Subject
अथ गुरुणानुशिष्टाः शिष्याः परमात्मानमाह्वयन्ति।
Footnote
१. ऋ० ८।९२।२०, अथ० २०।११०।२। २. सप्त संसदः—सप्तर्त्विजः, त्रय उद्गातारः, होता, मैत्रावरुणः, ब्राह्मणाच्छंसी, अच्छावाकः—एते ऋत्विजः—इति वि०।