Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 722

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢य꣣ म꣡द्व꣢ने सु꣣तं꣡ परि꣢꣯ ष्टोभन्तु नो꣣ गि꣡रः꣢ । अ꣣र्क꣡म꣢र्च्चन्तु का꣣र꣡वः꣢ ॥७२२॥

इ꣡न्द्रा꣢꣯य । म꣡द्व꣢꣯ने । सु꣣त꣢म् । प꣡रि꣢꣯ । स्तो꣣भन्तु । नः । गि꣡रः꣢꣯ । अ꣣र्क꣢म् । अ꣣र्चन्तु । कार꣡वः꣢ ॥७२२॥

Mantra without Swara
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । अर्कमर्च्चन्तु कारवः ॥

इन्द्राय । मद्वने । सुतम् । परि । स्तोभन्तु । नः । गिरः । अर्कम् । अर्चन्तु । कारवः ॥७२२॥

Samveda - Mantra Number : 722
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मद्वने) ब्रह्मविद्यायामानन्दमनुभवते। [यो विद्यया माद्यति स मद्वा। मदी हर्षे क्वनिप्।] (इन्द्राय) शिष्याणाम् अन्तरात्मने (नः) अस्माकम् (गिरः) वाचः (सुतम्) अभिषुतं ज्ञानम् (परिष्टोभन्तु)परिधारयन्तु। [स्तुभु स्तम्भे, भ्वादिः।] येन (कारवः)स्तुतिकर्तारः सन्तस्ते (अर्कम्) अर्चनीयं परमात्मदेवम् (अर्चन्तु) पूजयन्तु ॥१॥
Essence
गुरुभ्यो लौकिकं ज्ञानं ब्रह्मज्ञानं च प्राप्य शिष्या गुरूपदिष्टमार्गेण परमात्मानं ध्यायन्तस्तं साक्षात्कुर्वन्तु ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५८ क्रमाङ्के परमात्मार्चनविषये व्याख्याता। अत्र गुरवो ब्रुवन्ति।
Footnote
१. ऋ० ८।९२।१९, अथ० २०।११०।१, साम० १५८।