Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 721

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣च्छ꣡न्ति꣢ दे꣣वाः꣢ सु꣣न्व꣢न्तं꣣ न꣡ स्वप्ना꣢꣯य स्पृहयन्ति । य꣡न्ति꣢ प्र꣣मा꣢द꣣म꣡त꣢न्द्राः ॥७२१॥

इ꣣च्छ꣡न्ति꣢ । देवाः꣢ । सु꣣न्व꣡न्त꣢म् । न । स्व꣡प्ना꣢꣯य । स्पृ꣣हयन्ति । य꣡न्ति꣢꣯ । प्र꣣मा꣡द꣢म् । प्र꣣ । मा꣡द꣢꣯म् । अ꣡त꣢꣯न्द्राः । अ । त꣣न्द्राः ॥७२१॥

Mantra without Swara
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥

इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति । यन्ति । प्रमादम् । प्र । मादम् । अतन्द्राः । अ । तन्द्राः ॥७२१॥

Samveda - Mantra Number : 721
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवाः) विद्वांसो गुरवः (सुन्वन्तम्) पुरुषार्थरूपसोमनिष्पादिनम् एव विद्यार्थिनम् (इच्छन्ति)शिष्यत्वेन वाञ्छन्ति, ते (स्वप्नाय) निद्रालवे शिष्याय (न स्पृहयन्ति) न रुचिं कुर्वन्ति। (प्रमादम्) यो विद्याध्ययनेन प्रकर्षतो माद्यति स प्रमादः तम् (अतन्द्राः) अनलसाः सन्तः (यन्ति) प्राप्नुवन्ति ॥३॥
Essence
लौकिकविद्याया ब्रह्मविद्यायाश्चापि प्राप्तिः पुरुषार्थादेव जायते। पुरुषार्थिन एवेतरेऽपि जनाः साहाय्यं कुर्वन्ति न निष्कर्मण्यस्य ॥३॥
Subject
अथ पुनरपि गुरुशिष्यविषयमाह।
Footnote
२. ऋ० ८।२।१८, अथ० २०।१८।३। उभयत्र ‘स्तोमं॑ चिकेत’ इति पाठः।