Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 72

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिपाद विराड् गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्निं꣢꣫ नरो꣣ दी꣡धि꣢तिभिर꣣र꣢ण्यो꣣र्ह꣡स्त꣢च्युतं जनयत प्रश꣣स्त꣢म् । दूरे꣣दृ꣡शं꣢ गृ꣣ह꣡प꣢तिमथ꣣व्यु꣢म् ॥७२॥

अ꣣ग्नि꣢म् । न꣡रः꣢꣯ । दी꣡धि꣢꣯तिभिः । अ꣣र꣡ण्योः꣢ । ह꣡स्त꣢꣯च्युतम् । ह꣡स्त꣢꣯ । च्यु꣣तम् । जनयत । प्रशस्त꣢म् । प्र꣣ । श꣢स्तम् । दू꣣रेदृ꣡श꣢म् । दू꣣रे । दृ꣡ष꣢꣯म् । गृ꣣ह꣡ प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । अथव्यु꣢म् । अ꣣ । थव्यु꣢म् ॥७२॥

Mantra without Swara
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । दूरेदृशं गृहपतिमथव्युम् ॥

अग्निम् । नरः । दीधितिभिः । अरण्योः । हस्तच्युतम् । हस्त । च्युतम् । जनयत । प्रशस्तम् । प्र । शस्तम् । दूरेदृशम् । दूरे । दृषम् । गृह पतिम् । गृह । पतिम् । अथव्युम् । अ । थव्युम् ॥७२॥

Samveda - Mantra Number : 72
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नरः२) उपासका जना यूयम् (हस्तच्युतम्) पाणिपादचक्षुःश्रोत्रादिरहितम्। हस्तशब्दः पादादीनामप्युपलक्षकः। (प्रशस्तम्) प्रशस्तियुक्तम्, (दूरेदृशम्) यो दूरे पश्यति स दूरेदृक् तं दूरदृश्वानम्। अत्र तत्पुरुषे कृति बहुलम्।’ अ० ६।३।१४ इति सप्तम्या अलुक्। (गृहपतिम्) ब्रह्माण्डगृहस्य शरीरगृहस्य वा पालकम्, (अथव्युम्३) यः थर्वति चलति स थर्व्युः। थर्वतिश्चरतिकर्मा। निरु० ११।१७। छान्दसे रेफलोपे थर्व्युरेव थव्युः, न थव्युः अथव्युः सर्वव्यापकत्वादचलः स्थिरमतिर्वा तम् (अग्निम्) परमात्मरूपम् अग्निम् (दीधितिभिः) ध्यानक्रियारूपाभिः अङ्गुलीभिः। दीधितयः इत्यङ्गुलिनाम। निघं० २।५। पक्षे दीधितयो ध्यानक्रियाः, ध्यै चिन्तायाम्। (अरण्योः) मनआत्मरूपयोः अरणिकाष्ठयोः मध्ये (जनयत) प्रकटयत ॥१०॥ श्लेषेण यज्ञाग्निपक्षेऽपि योजनीयम् ॥१०॥ यास्काचार्योऽस्य मन्त्रस्य ऋग्वेदीयं पाठमेवं व्याचष्टे—“दीधितयोऽङ्गुलयो भवन्ति, धीयन्ते कर्मसु। अरणी प्रत्युत एने अग्निः, समरणाज्जायत इति वा। हस्तच्युती हस्तप्रच्युत्या। जनयन्त प्रशस्तम्, दूरेदर्शनं, गृहपतिम् अतनवन्तम्।” निरु० ५।९।४१ इति ॥१०॥
Essence
अरणिमन्थनेन यथा यज्ञाग्निर्यज्ञवेद्यां प्रदीप्यते तथा ध्यानरूपेण मन्थनेन परमात्मा हृदि प्रकाशनीयः ॥१०॥ अत्र परमेश्वरस्य माहात्म्यवर्णनात्, तत्सपर्यार्थं, तज्ज्योतिःसाक्षात्कारार्थं, ध्यानरूपमन्थनक्रियाभिस्तत्प्रकाशनार्थं च जनानां प्रेरणादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति प्रथमे प्रपाठके द्वितीयेऽर्धे द्वितीया दशतिः ॥ इति प्रथमेऽध्याये सप्तमः खण्डः ॥
Subject
अथ परमात्माग्निः सर्वैर्जनैर्हृदये प्रदीपनीय इत्याह।
Footnote
१. ऋ० ७।१।१ हस्तच्युती जनयन्त, अमथर्युम् इति पाठः। २. विवरणकारस्तु नर इति जनयत इति मध्यमपुरुषयोगात् आमन्त्रितान्तम् इत्याह। परम् आमन्त्रितनिघाताभावात् ‘नरः इति पदं सम्बोधनान्तं न भवितुमर्हति। अत्र भरतस्वामी एवमाह—“अग्निं जनयत जनयन्ति नरः। लटः प्रथमपुरुषबहुवचनस्य लोण्मध्यमपुरुषबहुवचनेन व्यत्ययः। हे नरः मनुष्या ऋत्विजः जनयत इति वा प्रार्थना। तस्मिन् पक्षे नरः इति पदस्य आद्युदात्तत्वं स्वरव्यत्ययात्। सर्वानुदात्तं हि प्राप्तम् आमन्त्रितस्य च।’ पा० ८।१।१९ इति। नरो नेतारो यूयम् इति या कर्तृविशेषणम्।” ३. थर्व्यतेर्गतिकर्मणः नञुपसृष्टात् लुप्तरेफात् अथव्युम् इति रूपसिद्धिः, अगम्यम्—इति भ०। थर्वतिर्गत्यर्थः। अगमनम् अतनवन्तं वा—इति सा०।