Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 719

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥७१९॥

व꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अर्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥७१९॥

Mantra without Swara
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥

वयम् । उ । त्वा । तदिदर्थाः । तदित् । अर्थाः । इन्द्र । त्वायन्तः । सखायः । स । खायः । कण्वाः । उक्थेभिः । जरन्ते ॥७१९॥

Samveda - Mantra Number : 719
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे आचार्यप्रवर ! (तदिदर्थाः) तदित् तदेव लौकिकविद्याब्रह्मविद्याध्ययनम् (अर्थः) प्रयोजनं येषां तथाविधाः (वयम्) विद्यार्थिनः (त्वा) त्वाम्, उपैमः इति शेषः। हे (इन्द्र) विद्याधिपते ! (सखायः) सहाध्यायिनो वयम् (त्वायन्तः) त्वां कामयमानाः स्मः। सर्वे एव (कण्वाः) मेधाविनो विद्यार्थिनः (उक्थेभिः) स्तोत्रैः, त्वाम् (जरन्ते) स्तुवन्ति ॥१॥
Essence
शिष्यैर्गुरून् प्रति सदैव विनयेन वर्तनीयं, नित्यं ते परिचरणीयाश्च। उक्तञ्च यथा, “अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा। यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत्” (निरु० २।४)इति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५७ क्रमाङ्के परमात्मार्चनविषये व्याख्याता। अत्र शिष्या आचार्यं निवेदयन्ति।
Footnote
३. ऋ० ८।२।१६, अथ० २०।१८।१, साम० १५७।