Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 718

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्वं꣡ न इ꣢न्द्र वाज꣣यु꣢꣫स्त्वं ग꣣व्युः꣡ श꣢तक्रतो । त्व꣡ꣳ हि꣢रण्य꣣यु꣡र्व꣢सो ॥७१८॥

त्व꣢म् । नः꣣ । इन्द्रः । वाजयुः꣢ । त्वम् । ग꣣व्युः꣢ । श꣣तक्रतो । शत । क्रतो । त्व꣢म् । हि꣣रण्ययुः꣢ । व꣣सो ॥७१८॥

Mantra without Swara
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । त्वꣳ हिरण्ययुर्वसो ॥

त्वम् । नः । इन्द्रः । वाजयुः । त्वम् । गव्युः । शतक्रतो । शत । क्रतो । त्वम् । हिरण्ययुः । वसो ॥७१८॥

Samveda - Mantra Number : 718
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) सर्वान्तर्यामिन् जगदीश्वर ! (नः) अस्मभ्यम् (वाजयुः) अन्नधनबलविज्ञानादिप्रदानकामो भव, हे (शतक्रतो१) अनन्तप्रज्ञ अनन्तकर्मन् ! (त्वम् गव्युः) गोप्रदानकामो भव। हे (वसो) निवासप्रद ! (त्वम् हिरण्ययुः) सुवर्णप्रदानकामो ज्योतिष्प्रदानकामो वा भव ॥३॥२
Essence
परमात्मानमुपास्य तत्कृपया वयम् अन्नधनधेनुबलवेगविज्ञान- सत्संकल्पसद्विचारसद्विवेकसत्प्रकाशसत्कर्मसद्गुणदुःख-मोक्षादिरूपां सर्वामपि भौतिकीं दिव्यां च सम्पदं प्राप्तुमर्हेम ॥३॥
Subject
अथ जगदीश्वरं स्तौति।
Footnote
५. ऋ० ७।३१।३। १. शतक्रतो—बहुभिः क्रतुभिरिष्टवान् यः स शतक्रतुः। अथवा क्रतुरिति कर्मनाम प्रज्ञानाम वा बहुकर्मा बहुप्रज्ञो वा—इति वि०। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वान् कीदृशो भवेदिति विषये व्याख्यातवान्।