Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 717

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
श꣢꣫ꣳसेदु꣣क्थ꣢ꣳ सु꣣दा꣡न꣢व उ꣣त꣢ द्यु꣣क्षं꣢꣫ यथा꣣ न꣡रः꣢ । च꣣कृमा꣢ स꣣त्य꣡रा꣢धसे ॥७१७॥

श꣡ꣳस꣢꣯ । इत् । उ꣣क्थ꣢म् । सु꣣दा꣡न꣢वे । सु꣣ । दा꣡न꣢वे । उ꣡त꣢ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । य꣡था꣢꣯ । न꣡रः꣢꣯ । च꣣कृम꣢ । स꣣त्य꣡रा꣢धसे । स꣣त्य꣢ । रा꣣धसे ॥७१७॥

Mantra without Swara
शꣳसेदुक्थꣳ सुदानव उत द्युक्षं यथा नरः । चकृमा सत्यराधसे ॥

शꣳस । इत् । उक्थम् । सुदानवे । सु । दानवे । उत । द्युक्षम् । द्यु । क्षम् । यथा । नरः । चकृम । सत्यराधसे । सत्य । राधसे ॥७१७॥

Samveda - Mantra Number : 717
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखे ! त्वम् (सुदानवे) उत्कृष्टदानाय इन्द्राय परमात्मने (उक्थ्यम्२) स्तोत्रम् (उत) अपि च तस्य (द्युक्षम्) दीप्तिनिवासकं गुणकर्मस्वभावम् (शंस इत्) कीर्तय खलु, (यथा) येन प्रकारेण (नरः) नेतारो मनुजाः वयम् (सत्यराधसे३) सत्यधनाय तस्मै (चकृम) स्तोत्रं तद्गुणकर्मस्वभावकीर्तनं च कुर्मः ॥२॥४ अत्रोपमालङ्कारः ॥२॥
Essence
सर्वैर्मानवैर्जगदीश्वरस्य गुणकर्मस्वभावान् संकीर्त्य तदनुकूलं स्वजीवनं कार्यम् ॥२॥
Subject
अथ परमात्मशंसनाय प्रेरयति।
Footnote
१. ऋ० ७।३१।२। २. उक्थम्—उक्थानि सामानि, हे उद्गातः गायस्व सामानि। अथवा उक्थं शस्त्रमुच्यते, तच्छंस होतः। एकवचनं जात्यपेक्षम् उक्थजातिं शंस इति—वि०। ३. सत्यराधसे—राधः अन्नं धनं वा सत्यं वा। सत्यान्नाय, सत्यधनाय सत्यसत्याय वा—इति वि०। ४. ऋ० भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘हे विद्वांसो यस्य धर्मजं धनं सुपात्रेभ्यो दानं च वर्तते तमेवोत्तमं विजानीत’ इति विषये व्याख्यातः।